पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 376, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - ३९. ] दीपिका सहितम्. ३२९ ( ३ ) ‘ को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् ’ ( तै. २-७. ) इति हि श्रुतिः । ( ४ ) ‘ प्राणस्य प्राणमुत चक्षुषश्चक्षुः ’ ( बृ. ६-४-१८. ) इति च। ( ५ ) नभस्वतोऽपि सर्वास्स्युः चेष्टा भगवतो हरेः । किमुतान्यस्य जगतो यस्य चेष्टा नभस्वतः ॥ इति च स्कान्दे । समन्वयसूत्रादनुवृत्तस्य तदित्यस्योद्देश्यवज्रपदानुसारान्प्राणपदानु- साराद्वाभगवानिति व्याख्यानं कृतम् । सावधारणं चैतत् । तेन तुशब्दा- र्थो दर्शितः । यद्यपिवज्रो भगवानवेत्येतावदेव वक्तव्यं, न तूद्यत इति व- ज्रविशेषणमपि। तथापि पूर्वपक्ष्युक्तो द्यतत्वलिङ्गस्य प्रबलवरस्वरूपोद्य- तत्वार्थतया सावकाशत्वज्ञापनाय उद्यतेत्युक्तम् ॥ ( ३ ) ननु श्रुतिलिङ्गाभ्यां पूर्वपक्षिते कथं लिङ्गमात्रेण निर्णय इ- त्यतो लिङ्गस्य निरवकाशत्वादेवेत्याशयेन श्रुतेः प्रथमद्वितीयव्याख्या- नानुसारेण वज्रे श्रुतस्य प्राणतदितरसाधारन्येन सामान्यतो जगच्चे- ष्टकत्वलिङ्गस्य विष्णोरन्यत्र निरवकाशत्वं श्रुत्यादर्शयति—कोहीति हिशब्दो हेतौ यत इत्यर्थे प्रसिद्धौ वा । अस्तीति शेषः । अतो लिङ्ग- स्य नान्यत्र सावकाशत्वं शङ्कयमिति वाक्यशेषः ॥ ( ४ ) यदा सामान्यतः सर्वजगच्चेष्टकत्वमेव विष्ण्वेकनिष्ठं तदा किमु वक्तव्यं श्रुतेः तृतीयव्याख्यानरीत्या वज्रे श्रुतस्य सर्वजगत्प्रवर्त- कप्राणचेष्टकत्वलिङ्गस्य विष्ण्वेकनिष्ठत्वं जगच्चेष्टकत्वस्य सर्वथान्या- त्रायोगादिति भावेन तत्र श्रुतिं दर्शयति—प्राणस्येति । चोयस्मादि- त्यर्थे । पूर्वश्रुतिसमुच्चये वा । श्रुतिरित्त्यनुषज्यते । उक्तलिङ्गस्य अन्य- त्र निरवकाशत्वं ज्ञापयतीति वाक्यशेषः । यद्वा--यत् जगत्प्रवर्तक प्राणचेष्टकत्वादिलिङ्गं कम्पनादित्यनेन अभिसंहितं, तस्य विष्णुनिष्ठ- त्वासिद्धिपरिहाराय तत्र श्रुतिं प्रमाणयति—प्राणस्येति । ‘ प्राणस्य ’ सर्वचेष्टकमुख्यप्राणस्य ‘ प्राणं ’ प्रकृष्टचेष्टकत्वरूपप्राणत्वप्रदं ‘ उत ’ तथा ‘ चक्षुषश्चक्षुः ’ दर्शनकरणत्वरूपचक्षुष्ट्वप्रदं परमात्मानं ये विदु- स्ते ब्रह्म ‘निचिक्युः’ प्राप्नुयुरिति वाजसनेय श्रुत्यर्थः ॥ ( ५ ) श्रुतेः प्रथमव्याख्यायामपि कैमुत्यव्यक्तीकरणाय श्रुत्युक्तप्रा- णचेष्टकत्वं हेतूकृत्य प्रवृत्तां स्मृतिमाह—नभस्वत इति ॥ ‘ अपि ’ ज- गत्प्रेरकस्यापि ‘ नभस्वतो ’ वायोर्यदा सर्वाः चेष्टाः ‘ भगवतो ’ ज्ञा ४२