पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 389, कुल 1267 में से
संदर्भ में पढ़ें३४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] १. अधिकरणम् ॥ ( १ ) श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धानामपि शब्दानां सा- मस्त्येन विशेषहेतुभिर्विष्णावेव प्रवृत्तिं दर्शयत्यस्मिन् पादे— १. अधिकरणम् ॥ ( १ ) एतत्पादप्रतिपाद्यं दर्शयति—श्रुतीति ॥ अन्यत्रैवेत्येवकारोऽ त्रापि सम्बध्यते । श्रुतिलिङ्गादिभिरेव, न लोकप्रसिद्धयेति । अनेन प्रथ मद्वितीयपादप्रतिपाद्यादस्य भेदो दर्शितः । क्वचिदानन्दमयाद्यधिक रणेषु श्रुत्यादिभिरेवान्यत्रप्रसिद्धानां समन्वयकरणात्तद्व्यावर्तनाय ब लवदित्याद्यावुपस्कार्यम् । एवकारो वा बलवत्त्वद्योतकः । तथा च पूर्व पादीयप्रतिपक्षश्रुत्याद्यपेक्षया एतत्पादीयश्रुत्यादीनां प्राबल्यान्न ह्येत स्य गतार्थतेति भावः । अन्यत्र विष्णोरितरत्र प्रकृतिजीवादावेवेत्येव कारशिरस्कत्वोक्त्योभयत्र प्रसिद्धानां व्यावर्तनेन तृतीयपादप्रतिपा द्यादस्य भेदो दर्शितः । प्रसिद्धानामिति । रूढ्यादिनाऽन्यवाचकत्वे न प्रमितानामित्यर्थः । न केवलं लोकप्रसिद्ध्या श्रुत्यादितो वाऽन्यत्र प्र सिद्धानामुभयत्रप्रसिद्धानां च विष्णौ समन्वयम्, किन्तु श्रुतिलिङ्गा दिभिरन्यत्रैव प्रसिद्धानामपीत्यपेरर्थः । शब्दानामिति । नामलिङ्गात्म कानामित्यर्थः । प्रकारान्तरेणास्य प्रथमपादप्रतिपाद्याद्भेदं दर्शयति— सामस्त्येनेति । इत्थंभूतलक्षणे तृतीया । समन्वेतव्यत्वप्रकारं प्राप्तानां शब्दानां इदं विशेषणम् । यद्वा—सामस्त्येनैव समन्वयं प्रतिपादयति, न त्वेकदेशेनेत्यर्थः । प्रकारे तृतीया । प्रकारप्रकारिणोरभेदविवक्षया इय मुक्तिः। तथा च त्रिपाद्यां स्रष्टृत्वादिगुणाभिधायकानां 'आत्मन आका- शस्सम्भूतः' इत्यादि सृष्ट्यादिप्रकरणव्याख्येयानां सत्यज्ञानादिगुणवा- चिशब्दानां तथा तत्सङ्गतानामन्नमयादिगुणिवाचकानां शब्दानां सृ- ष्ट्यादिकर्तृत्वाभिधायिप्रकरणगताकाशेंद्राग्निवज्रादिशब्दानां 'सदेव सौम्येदम' (छां. ६-२-१.) इत्यादिसृष्टिप्रकरणगतशब्दानां च समन्वयोऽ भिहितः । अत्र पुनः स्वरवर्णपदात्मनां समस्तशब्दानामित्यतोऽपि पूर्व पादेभ्योऽस्य भेद इति भावः । ननु बलवच्छ्रुतिलिङ्गादिभिरन्यत्रैवप्र सिद्धानां कथं समन्वयः, असम्भवादित्यत आह—विशेषेति । पूर्वप- क्ष्युक्तलिङ्गादिभ्योऽपि प्रबलैर्हेतुभिरित्यर्थः । तथा च नासम्भव इति भावः । ननु समस्तशब्दनिरूपणाद्वैयर्थ्यमिति परिहारो न युक्तः अं