पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 599, कुल 1267 में से
संदर्भ में पढ़ें५५२ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ३. ] नैरूक्तिरुभयकारणत्वनिवृत्त्यर्थम् ॥ १० ॥ ५. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ आपः ॥ ॐ ॥ ११ ॥ 'ब्रह्मैवेदमग्र आसीत्तदपो सृजत तदिदं सर्वम्' इति श्रुतेः 'अग्नेरापः' ( तै. २ - १० ) इत्युक्तेऽपि ब्रह्मण एवाबादिस्सृष्टिः । शेषः । अविरोधादिति भावः ॥ ४ ॥ इति तेजोधिकरणम् ॥ ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे अब्जन्मविषयश्रुतिविरोधः परिह्रियते । 'अग्नेरापः' इतिश्रुतेः अग्नेरापोऽजायन्त इति पूर्वपक्षे सिद्धान्तय त्सूत्रमुपन्यस्य व्याचष्टे—आप इति ॥ श्रुतेरित्यनेन सूत्रे 'तथा ह्याह' इत्यस्यानुवृत्तिस्सूचिता । ब्रह्मण इत्यनेन अत इत्यस्य एवेत्यनेन तुशब्द स्यैवार्थस्य अनुवृत्तिस्सूचिता । श्रुतेर्ब्रह्मण इति पञ्चम्यौ । 'अग्नेरापः' इत्युक्तेऽपीत्यनेन एवकारव्यावर्त्यः सयुक्तिकपूर्वपक्षोऽपि दर्शितः । अपिः शङ्कापरिहारसमुच्चयार्थः । न त्वन्यतोऽग्नेरित्येवकारार्थः । अ बादीत्यादिपदं तु भूतवायुपृथिव्योषध्यादीनां उपलक्षणमप्पदमिति सूचनार्थम् तेषामपि 'आकाशाद्वायुः' ( तै. २-१-१. ) इति सयुक्ति कश्रुतिरूपपूर्वपक्षन्यायप्राप्तत्वात् । 'इदं सर्वमसृजत' ( बृ. ३-२-५. ) इति सिद्धान्तश्रुतिरूपन्यायप्राप्तत्वाच्च । अत एव 'इदं सर्वम्' इति श्रुत्यंशोदाहरणम् । सृष्टिरित्यनेन सूत्रे जायन्त इति शेषो दर्शितः । सृष्टिरपीत्यपिशब्दान्वयेन अनुवृत्ततुशब्दः आपोऽपीत्यर्थ तयाऽपि व्याख्यातः । तथा च यद्यपि 'अग्नेरापः' इत्युक्तं घर्मात्स्वेदा दिकं च दृष्टम् । तथाऽपि 'अग्नेराप इत्युक्तेऽपि' तथा श्रुतावपि घर्मा त्स्वेदादिदर्शनेऽपि नाग्न्यादेरबादिस्सृष्टिः मन्तव्या, किन्तु ब्रह्मण एवा बादिसृष्टिर्भवति । कुतो ? 'ब्रह्मैवेदम' ( ) इति श्रुतेरिति योजना । 'इदम्' अस्य 'अग्रे' प्रलये ब्रह्मैवासीत् । तद्ब्रह्मापो सृजत । 'इदं सर्वं' भूतवाय्वादिकं तद्ब्रह्म ततो जातमेवेति श्रुत्यर्थः ॥