भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 600, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 600

[ अधि - ५. सू - ११. ] दीपिका सहितम्. ५५३ ( २ ) एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ (मु० २-१-३.) इत्यादि च । ( ३ ) कर्ता सर्वस्य वै विष्णुः एक एव न संशयः । इतरेषां तु सत्ताद्या यत एव तदाज्ञया॥ इति भविष्य त्पुराणे । ( ४ ) वामने च— ( २ ) 'तदपोऽसृजत' (छां. ६-२-३.) इति श्रुतेरब्मात्रस्य ब्रह्मजातत्वे ऽपि वाय्वादेः सर्वस्य ब्रह्मजातत्वं कुतः ? इदं सर्वमित्यस्य च सामा न्यरूपत्वादित्यतः श्रुत्यन्तरमाह-एतस्मादिति ॥ 'एतस्मात्' परब्रह्मणो मुख्यप्राणो मुख्यवायुर्जायते । 'मनस्सर्वेन्द्रियाणि च' जडचेतनोभय रूपाणि जायन्ते। एवं 'खं' आकाशं भूतवायुः तेज आपः 'विश्वस्य धारि णी' पृथिवी च जायत इत्यर्थः । पृथिवीनिष्ठं विश्वधारकत्वमपीश्वरा जातमिति दर्शयितुं विश्वस्य धारिणीत्युक्तम् । इत्यादिचेत्यस्य ब्रह्म णोऽब्बादिसृष्टिरित्याहेति पूर्वेणान्वयः । चः पूर्वश्रुतिसमुच्चये । यद्यपी यं श्रुतिः पूर्वाधिकरण एवोदाहर्तव्या तेजसो ब्रह्मजातत्वस्याप्यत्रैवो क्तेः । तथाऽप्यधिकरणद्वयार्थसाधकत्वेन तदन्त एवोपन्यासो यु क्तः। अत एव भाष्यकृतां तेजःपदस्याप्यप्पद्वदन्योपलक्षकत्वसम्भवे ऽपि पूर्वत्र तेजआद्यपीत्यनुक्त्वाऽत्रैवाबादीत्युक्तम् ॥ ( ३ ) ननूदाहृतश्रुतिविरोधादितरमात्रजनकत्वानुपपत्तावपि 'वा योरग्निः, अग्नेरापः' इति सयुक्तिकश्रुतिबलाद्विष्णोरिवेतरषामपि जन कत्वं किं न स्यादित्यतः शक्त्यभावादित्याह—कर्तेति ॥ विष्णुरेव स र्वस्य जगतो मुख्यः 'कर्ता' कारणं वै । कुतो ? यत 'इतरेषां' वाय्वा दीनां 'सत्ताद्याः' सत्ताप्रतीतिशक्तयः 'तदाज्ञया' तस्य विष्णोः आ ज्ञामात्रेणैव भवन्त्यत इत्यर्थः । तुशब्दो विशेषार्थः । यद्यपीयं स्मृतिर पि पूर्वत्रैवोपन्यसनीया, अतिव्याप्तिनिरासस्य तत्रापि साम्यात् । त थाऽप्यौचित्यादधिकरणद्वयान्त एवोपन्यस्ता । पुराणे इत्यस्य ब्रह्मण एव अबादिसृष्टिरित्युक्तमिति सावधारणवाक्येनान्वयः ॥ ( ४ ) तर्हि विमताः आपस्तेजसो जायन्ते अप्त्वात्, स्वेदादिवदि ति युक्त्युपेता 'अग्नेरापः' इति श्रुतिः कथमुपपद्यत इत्यतो विशेषप्र माणमाह—वामनेचेति ॥ यद्यपि विष्णुः 'एकः' अन्यानपेक्ष एवाबा ७०