भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 601, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 601

५५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] तत्र तत्र स्थितो विष्णुः तत्तच्छक्तीः प्रबोधयन् । एक एव महाशक्तिः कुरुते सर्वमञ्जसा ॥ इति ॥ ( ५ ) घर्मात्स्वेदादिदृष्टेः पुनः प्रतिषेधः ॥ ११ ॥ -::- ६. अधिकरणम् ॥ ( १ ) 'ता आप ऐक्षन्त बह्व्यस्स्याम प्रजायेमहीति । ता दिजनने 'महाशक्तिः' पूर्णसामर्थ्योपेतः । तथाऽपि लीलयैव 'तत्रत- त्र' अग्न्यादिषु 'स्थितः सन्' स्थित्वा 'तत्तच्छक्तीः' अग्न्यादिसाम- र्थ्यानि प्रबोधयन् तद्द्वारा 'सर्वं' अबादिकं 'अञ्जसा' सम्यक् 'कु- रुते' जनयतीत्यर्थः । अञ्जसेत्यनेन उत्पादनप्रकाराभिज्ञत्वं सूचितम् । तथा चाग्न्यादिगतेश्वरविषयं श्रुत्यादिकमिति न तदनुपपत्तिरिति भा- वः । इति च वामन इत्यन्वयः । 'अग्नेरापः' इत्यादिश्रुतिगतिरुक्तेति शेषः ॥ ( ५ ) ननु कारणत्वेनेत्यत्रैवापां ब्रह्मणो जन्मनः सिद्धत्वात् व्य- र्थमेतदधिकरणम् । न चाग्निब्रह्मणोरुभयोः स्वतन्त्रकारणत्वनिवृत्त्यर्थ- मेतदिति वाच्यम् । तस्यापि पूर्वाधिकरण एव निरस्तत्वादित्यत आ- ह-घर्मादिति ॥ ऊष्मभयशोकादित्यर्थः । स्वेदादीति । स्वेदबाष्पा- दिदर्शनादित्यर्थः । 'प्रतिषेधः' अग्नेरापः प्रतिस्वतन्त्रकारणत्वस्याऽत्र क्रियत इति शेषः । तथा चापां ब्रह्म जन्यत्वसमर्थनार्थं चोभयकारण- तानिरासार्थं वा नेदमधिकरणं, येन वैयर्थ्यं स्यात्, किन्तु भवतु वायो- रग्न्युत्पत्तौ तद्द्वारत्वप्रतिपादकता 'वायोरग्निः' इति श्रुतेः, अत्र पुन- रग्नेरप्कारणत्वमेव 'अग्नेरापः' इति श्रुत्या प्रतिपाद्यते, न तु द्वारकार- णत्वम्, कुतः ? प्रत्यक्षानुकूल्यादित्यभ्यधिकाऽऽशङ्का प्राप्तब्रह्मेतरमात्र- जन्यतानिरासार्थं, अतः सार्थकमेतदिति भावः ॥ ५ ॥ इति अबधिकरणम् ॥ -**- ६. अधिकरणम् ॥ ( १ ) एवं सर्वस्य जगतः साक्षादन्यद्वारा वा ब्रह्मजातत्वे सिद्धे ऽत्रान्यद्वाराजगत्कारणे समन्वयसिद्ध्यर्थमपां ब्रह्मद्वारत्वे श्रुतिविरोधः परिह्रियते । अत्रापः किमन्नस्य द्वारकारणमुत पृथिव्या इति सन्देह- स्य बीजभूतं श्रुतिविरोधं दर्शयन् पूर्वपक्षयति-ता इति ॥ प्रथम इ-

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 601, कुल 1267 में से · BharatKosha