पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
DevanagariHindipublished1,267 पृष्ठ
पृष्ठ 602, कुल 1267 में से
संदर्भ में पढ़ेंपृष्ठ 602
[ अधि - ६. सू - १२. ] दीपिकासाहितम्. ५५५ अन्नमसृजन्त ' (छा. ६-२.) इत्यद्भ्योऽन्नसृष्टिः श्रूय ते । 'अद्भ्यः पृथिवी' (तै. २-१०.) इति कुत्र चित्पृ थिवीसृष्टिः । अतो विरुद्धत्वादप्रामाण्यमिति । ( २ ) अतो वक्ति - सू- ॐ ॥ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॥ ॐ ॥ १२ ॥ पृथिवी तत्रान्नशब्देनोच्यते भूताधिकारत्वात् । तिशब्दः श्रुत्यन्तर्गतः । द्वितीयो भाष्यकारीयः । 'इति श्रूयते' इति छान्दोग्यश्रुत्योच्यत इत्यर्थः । यद्यपि 'ता अन्नमसृजन्त' इत्येतदेवोप युक्तम् । तथाप्यस्य किञ्चिद्व्यवहितत्वात् तच्छब्दपरामर्शनीयप्रदर्श नाय तत्पूर्ववाक्यमप्युदाहृतम् । पूर्वपक्षेऽन्नशब्दौ प्रसिद्धान्नपरौ । सिद्धान्ते श्रुत्यर्थस्तु-'ताः' तेजोभिमानिरमा