पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 603, कुल 1267 में से
संदर्भ में पढ़ें५५६ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ३.] (३) कार्ष्ण्यप्रचुरा च पृथिवी नान्नस्य तथा विशेषः। (४) 'आपश्च पृथिवी चान्नम्' (ऐ. आ. २-३-१०.) 'पृथिवी वा अन्नम्' (तै. ३-९.) 'ता आपोऽन्नमसृजन्त पृ- थिवी वा अन्नम्' इत्यादिशब्दान्तराच्च। (५) आदिशब्दाद्युक्तिः अपौरुषेयत्वेनादोषस्य वाक्यस्य (३) नन्वन्नश्रुतौ जाग्रत्यां कथं प्रकरणमात्रेण निर्णय इत्यतः त- दुत्तरत्वेन रूपेत्यंशं व्याचष्टे—कार्ष्ण्येति ॥ पृथिवी 'कार्ष्ण्येन' कृष्ण- रूपेण 'प्रचुरा' बाहुल्येन कृष्णवर्णोपेतेत्यर्थः । कार्ष्ण्यं चान्ने 'यत्कृ- ष्णं तदन्नस्य' इति सिद्धम् । यत इति वाक्यशेषः । तथा च प्रकरण- लिङ्गाभ्यामन्नश्रुतिबाध इति भावः । पृथिव्यां रूपान्तरस्य सद्भावात्क- थं कार्ष्ण्यं लिङ्गमित्याशङ्कापरिहाराय प्रचुरेत्युक्तम् । अनेन स्वतः कार्ष्ण्यं लिङ्गमित्यभिप्रैति । चशब्दो लिङ्गसमुच्चये । नन्वन्नेऽपि सम्भ- वतः कार्ष्ण्यस्य कथं पृथिवीलिङ्गत्वमित्यत आह—नेति । अन्नस्य 'त- था' पृथिवीवत् 'विशेषः' कार्ष्ण्यप्राचुर्यरूपो धर्मो नेत्यर्थः । तथा च लिङ्गं निरवकाशमिति भावः ॥ (४) न केवलं प्रकरणलिङ्गाभ्यामवाचकेनैवान्नशब्देन पृथिवी बो- ध्यते, किन्तु श्रौतप्रयोगबलात्, तत्रापि तस्य वाचकत्वशक्तिरस्तीत्य- तेऽपीत्याशयेन शब्दान्तरेत्यंशं व्याचष्टे—आपश्चेति ॥ 'आपश्च पृथिवी चान्नम्' इत्यैतरेयश्रुतिः । अत्रेत्युच्यत इति शेषः । परस्परसमुच्च- ये चशब्दौ । यद्यप्यैतरेयभाष्ये पृथिव्यप्छब्दौ नारायणानिरुद्धपरत- या व्याख्यातौ । तथाऽपि अन्यत्रापि शक्तिसत्त्वात् नासङ्गतिः । पृथि- वी वा अन्नम्' इति तैत्तिरीयश्रुतिः । वैशब्दः प्रसिद्धौ । 'ता आपः' इत्यपरा श्रुतिः स्वयमेव स्वस्थितान्नशब्दं व्याख्याति—पृथिवीति । आदिशब्देनैवंजातीयका श्रुतिर्गृह्यते । 'शब्दान्तरात्' अन्नमित्यादि- श्रुत्यपेक्षया अन्यस्माच्छ्रुतिवाक्यादित्यर्थः । शाखान्तरस्थत्वसूचना- यान्तरेत्युक्तिः । यद्वा—शक्तिग्राहकशब्दविशेषादित्यर्थः । चौ हेतुस- मुच्चये । अस्य पृथिवी तत्रान्नशब्देनोच्यत इति पूर्ववाक्येनान्वयः ॥ (५) किमन्नश्रुतेरर्थान्तरकल्पनया, परस्परविरोधात् श्रुतिद्वया- प्रामाण्यमेव किं नाभ्युपेयते इत्यत आह-आदिशब्दादिति॥ सूचितेति शेषः । तामेव युक्तिं साध्यसाधनोक्त्या दर्शयति—अपौरुषेयत्वेनेति । वेदस्येति शेषः । तथा चापौरुषेयत्वेन लिङ्गेनाशेषस्य निर्दोषत्वेन सि-