पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 740, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - १. ] दीपिकासहितम्. ६९३ (४) अत आह— सू—ॐ ॥ तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूप णाभ्याम् ॥ ॐ ॥ १ ॥ शरीरान्तरप्रतिपत्तौ भूतसंपरिष्वक्त एव गच्छति । (५) 'वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति.. मोक्षस्य मरणातिरिक्तकारणायत्तत्वं प्रदर्श्य साधनविचारस्य प्रयोज कत्वप्रतिपादनात्मकमिदमधिकरणं स्वर्गादिगतिनिरूपणया वैराग्या ख्यप्रथमसाधनप्रतिपादनारम्भात्मकं च भवतीति । अत एवास्य प्र थमपादादौ निवेशः । प्रथमातिक्रमे कारणाभावात् ॥ (४) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ शरीरेत्यनेन मांसादीति पूर्वसूत्रे प्रकृतं शरीरमिह तच्छब्देन ग्राह्यमिति सूचितम् । ऐहिकशरीरादन्यच्छरीरं शरीरान्तरम् , भूतपरिष्वङ्गेन इहागतिवैय र्थ्यपरिहारायोक्तम् । तदन्तरप्रतिपत्तौ प्राप्ताविति तादर्थ्ये सप्तमीयम् । भूतसम्परिष्वक्त इत्यनेन तत्तच्छरीरारम्भकत्वेन प्रस्तुतभूतसंयुक्त इ त्येवं सम्परिष्वक्तपदं व्याख्यातम् । समित्युक्त्या मुक्तिपर्यन्तं परिष्व क्त एव, न मध्ये वियुक्त इत्याह । तदनूद्य व्याख्यातमेवेति रंहतीत्य स्यार्थो—गच्छतीति । ज्ञो जीव इत्यस्ति । यतोऽत इति शेषः । अस्य न मरणे आत्यन्तिकः भूतवियोग इत्यध्याहृतसाध्येनान्वयः । अनेन 'भू तानां विनिवृत्तिः' इत्येतद्भागनिवृत्तिपरम् । एवं भूतसंप्रयोगोऽपीत्युक्तं भवति ॥ (५) भूतसंयुक्तस्यैव गतिरसिद्धेत्यतः प्रवृत्तं प्रश्नेत्यादिकं व्याच ष्टे—वेत्थेति । छान्दोग्यस्थाविमौ प्रश्नपरिहारौ । श्वेतकेतुर्नाम ऋषिः स्वपितृसमीपेऽभ्यस्तविद्यः पाञ्चालानां समितिं जगाम । तत्र तद्देशा धिपतिः प्रवाहणो नाम राजा पण्डितंमन्यस्यास्याहङ्कारशान्त्यै परीक्षा र्थं पञ्च प्रश्नानप्राक्षीत्। तत्र 'वेत्थ' इति पञ्चमप्रश्नवाक्यम् । तस्यायमर्थः- हे श्वेतकेतो 'यथा' येन क्रमेण येन प्रकारेण च द्युपर्जन्यधरापुरुषयोषा ख्येषु पञ्चस्वग्निषु आहुत्यधिकरणत्वेन अग्निशब्दवाच्येषु मध्ये योषा ख्याग्नौ रेतोरूपायां पञ्चम्यामाहुतौ हुतायां 'आपः' अद्भिः सम्परिष्वक्तो जीवो लब्धदेहः 'पुरुषवचसः' पुरुषनामवान् भवति, तं क्रमं प्रकारं च वेत्थ किमिति । एवं पृष्टः श्वेतकेतुः 'नैव भगव इति' (छा.५-३-३.) अहं नैव वेदेत्यवोचत् । तर्हि कथं विद्वानिति ब्रवीषि इति राज्ञा साक्षेपम