पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 754, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - ८. ] दीपिका सहितम्. ७०७ इति च ॥ ७ ॥ ८. अधिकरणम् ॥ ( १ ) कृतस्य कर्मणो भोगेन क्षयान्मुक्तिरिति । यानि तीर्थादिवाक्यानि कर्माणि विषयाणि च । स्तावकान्येव तानि स्युरज्ञानां मोहकानि च ॥ इति गीताभाष्यवचनविरोध इति चेन्न, रोचनार्थे फलश्रुतिरित्युक्तेः फलवचनवदल्पाधिकार्यपेक्षया तदुपपत्तेः, श्रुतीनां स्वार्थपरत्वस्यात्या- गात् । अन्यथा 'प्रशंसादीनां तात्पर्यं वाचनिकार्थात्यागेनैवोक्तं स्वयं भगवता भाक्तं वेति' इति कर्मनिर्णयविरोधात् । सूत्रार्थस्तु--यतः 'तत्' अमृतत्वं 'अपाम' इति श्रुतौ काम्यकर्मिण उक्तममृतत्वं 'भा- क्तं' कालभागतोऽल्पकालीनमिति यावत् । 'वा' अथ वा जिज्ञासोर- काम्यकर्मिणः पारम्पर्येण तदमृतत्वं श्रुतावुक्तम् । यद्वा—परमात्मवि- दां कर्मापेक्षया तदमृतत्वमुक्तम्, अतो मुमुक्षुणाऽवश्यानुष्ठेयमेव वैरा- ग्यादीत्युक्तार्थे न श्रुतिविरोधः । काम्यकर्मिभिरपि मुख्यामृतत्वमेव प्रा- प्यमिति श्रुत्यर्थः किं न स्यादित्यत आह—अनात्मवित्त्वादिति । का- म्यकर्मिणां परमात्मानपरोक्षज्ञानित्वादित्यर्थः । अनात्मवित्त्वेऽपि कुतो न तेषां मुख्यामृतत्वलाभः । तथा 'अपाम' इत्यादेरुक्तानेकार्थकत्वे च किं प्रमाणमित्यत आह—तथा हीति । 'हि' यतो 'नान्यः' इति 'स एनम्' इति श्रुतिश्च 'तथा' आत्मविदामेव मुख्यामृतत्वे नानात्म- विदामित्यर्थम् , 'आत्मानमेव' इति श्रुतिर्ज्ञानोत्तरकर्मापेक्षयेत्यर्थे 'अमृ- तः' इति श्रुतिर्भाक्तमित्यर्थे 'कर्मणा' इति श्रुतिः पारम्पर्येणेत्यर्थे च 'दर्शयति' प्रतिपादयत इति ॥ ७ ॥ ॥ इति भाक्ताधिकरणम् ॥ ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे वैराग्यादिसाधनस्यावश्यानुष्ठेयत्वं समर्थ्यते। 'कृतात्यये' इत्यनेन सूचितं पूर्वपक्षं दर्शयति—कृतस्येति ॥ कृतस्ये- त्यनुवादेन कर्मण इति व्याख्यानम् । 'भोगेन' फलानुभवेन 'क्षयात्' नाशात् । अनेन निमित्तसप्तमीति सूचितम् । कर्मणः क्षयादित्यावर्तते। तथा च जीवेन सहोपगतस्य कृतस्य कर्मणः स्वर्गादिष्वेव भोगेन नि-