पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 762, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ११. सू - १३. ] दीपिकासहितम्. ७१५ इति नाममहोदधौ ॥ १२ ॥ :-*:- ११. अधिकरणम् ॥ ( १ ) पुण्यकृतामेव गमनागमने नेतरेषामिति । ( २ ) अत आह— सू- ॐ ॥ अनिष्टादिकारिणामपि च श्रुतम् ॥ ॐ ॥ १३ ॥ ‘ तद्य इह शुभाकृतो ये चाशुभकृतस्तेऽशुभमनुभूया वर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति ’ इति भाल्लवेयश्रुतौ ॥ १३ ॥ र्दिष्टसिद्धान्तस्य स्वसिद्धान्तस्य चैक्यं तुशब्दार्थ इति भावः । तुशब्द- स्यैतदभिधायकत्वं कुत इत्यत आह—तुशब्द इति । ‘ नाममहोदधौ ’ ग्रन्थे । उक्तमिति शेषः ॥ १० ॥ ॥ इति चरणाधिकरणम् ॥ ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽनिष्टादिकारिणामपि गतागतादिदुःखमस्ती- ति समर्थ्यते । पूर्वपक्षयति—पुण्यैति ॥ इष्टादिपुण्यकर्मकृतामेवेत्यर्थः । स्वप्रयुक्तैवशब्दव्यावर्त्यं दर्शयति—नेति । ‘ इतरेषां ’ पापकर्मकारि- णामपि नेत्यर्थः । अनात्मविदामिति शेषः । तथा च अनिष्टादिकारिणा- मज्ञानां गतागतयोरभावात्तेषां तच्छून्यो मोक्ष एवेति पुण्यतत्फलयो- रेव विरक्त्या भाव्ये, नान्यत्रानिष्टादावपीति भावः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य तदुपपादकश्रुतिमेवोदाहरति—अत इति ॥ श्रुतावित्यस्य सूत्रेणान्वयः । गमनागमने इत्यनुषज्यते । अनेन सूत्रे यथेत्यत इतमनितं चेति पदद्वयानुवृत्तिस्सूचिता । पुण्यकृता- मित्यनेनापिशब्दार्थस्सूचितः । सूत्रे संयमनसूत्रोक्तदुःखान्तरसमुच्चा- यकश्चशब्दः । तथा च ‘ इतं ’ गमनं ‘अनितं ’ आगमनं च न केवल- मिष्टादिकारिणां, किं नाम? ‘अनिष्टादिकारिणामपि’ यागाद्यकारिणां त- द्विरुद्धपापकर्मकारिणां चास्ति । न केवलमनिष्टादिकारिणां गतागत- मात्रम्, किं नाम ? संयमनाख्यं प्रबलदुःखान्तरं चास्ति । कुतो? यतः ‘ तद्य इह ’ इति श्रुतौ तथा श्रुतं अत इति योजना । ‘ इह ’ भूमौ ‘ ये शुभाकृतो ’ यागादिपुण्यकर्माकारिणः ये च ‘अशुभकृतः ’ इष्टादिविरु- द्धपापादिकारिणः ते लोकान्तरं गतास्तत्र ‘ अशुभं ’ पापफलमनुभूय