रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 234, कुल 735 में से
संदर्भ में पढ़ेंषष्ठः सर्गः १७५
अक्षास्तु देवनाः पाशकाश्च ते' इत्यमरः । सलीलमुदीरयामासोच्चिक्षेप । अहं त्वया सहैवं रंस्ये-इति नृपाभिप्रायः । अक्षचातुर्ये कापुरुषोऽयमिति न्दुमत्यभिप्रायः । ( अक्षैर्मादीव्येत् ) इति श्रुतिनिषेधात् ।
भाषार्थ—कोई राजा जिसकी हथेली कमल के समान लाल थी और उस पर ध्वजा की रेखायें बनी हुई थी वे अपने हाथ से रत्न जटिल अगूठ्ठी, की कान्त से झलकते हुए पाशों को धीरे-धीरे उछाल रहा था ॥ १८ ॥
कश्चिद्यथाभागमवस्थितेऽपि स्वसंनिवेशाइव्यतिलङ्घिनीव ।
वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥ १६ ॥
अन्वयः—कश्चित् यथाभागं अवस्थिते अपि स्वसन्निवेशात् व्यतिलङ्घिनी इव किरीटे वज्रांशुगर्भाङ्गुलिरन्ध्रं एकं करं व्यापारयामास ।
कश्चिदिति । कश्चिद्यथाभागं यथास्थानमवस्थितेऽपि स्वसन्निवेशाद्व्यतिलङ्घिनीव स्वस्थानाच्चलित इव किरीटे वज्राणां किरीटगतानामंशवो गर्भे येषां तान्यङ्गुलिरन्ध्राणि यस्य तमेकं करं व्यापारयामास । किरीटवन्मम शिरसि स्थितामपि त्वां भारं न म॑न्ये इति नृपाभिप्रायः । शिरसि न्यस्तहस्तोऽयमपलक्षणक इतीन्दुमत्यभिप्रायः ।
भाषार्थ—कोई राजा अपने स्थान पर स्थित रहने पर भी मुकुट को अपने स्थान से सरका हुआ समझकर उस पर अपना एक हाथ रखता था ऐसा करने में उसके हाथ की अंगुलियों के बीच का भाग मुकुट के रत्नों की किरणों से चमक उठता था ॥ १९ ॥
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी ।
प्राक्सन्निकर्षं मगधेश्वरस्य नीत्वा कुमारीवमदत्सुनन्दा ॥ २० ॥
अन्वयः—ततः नृपाणां श्रुतवृत्तवंशा प्रगल्भा प्रतिहाररक्षी सुनन्दा प्राक् कुमारीं मगधेश्वरस्य सन्निकर्षं नीत्वा पुंवत् अवदत् ।
तत इति । ततोऽनन्तरं नृपाणां श्रुतनृप्रवृत्तवंशेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । प्रगल्भा वाग्मिनी सुनन्दा सुनन्दाख्या प्रतिहारं रक्षतीति प्रतिहाररक्षी द्वारपालिका । कर्मण्यण्प्रत्ययः । "टिड्ढाणञ्द्वयसज्जघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः" इत्यनेन ङीप् । प्राक्प्रथमं कुमारीमिन्दुमतीं मगधेश्वरस्य सन्निकर्षं समीपं नीत्वा पुंवत्पुंसा तुल्यम् । "तेन तुल्यं क्रिया चेद्वतिः" इति वतिप्रत्ययः । अवदत् ।
भाषार्थ—इसके बाद राजाओं के आचरण एवं वंश परम्परा को जानने वाली और पुरुषों के समान ढीठ बोलने वाली द्वारपालिका सुनन्दा राजकुमारी इन्दुमती को सर्वप्रथम मगधनरेश के पास ले जाकर बोली ॥ २० ॥