भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 235, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 235
१७६रघुवंशमहाकाव्ये

असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा ॥ २१ ॥

अन्वयः—असौ शरणोन्मुखानां शरण्यः अगाधसत्त्वः प्रजारञ्जनलब्धवर्णः मगधप्रतिष्ठः यथार्थनामा परन्तपः नाम राजा अस्ति ।

असाविति । असौ राजा असाविति पुरोवर्तिनो निर्देशः । एवमुत्तरत्रापि द्रष्टव्यम् । शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः । 'तत्र साधुः' इति यत्प्रत्ययः शरणं भवितुमर्हः शरण्य इति नायनिरुक्तिर्निर्मूलैव । अगाधसत्त्वो गम्भीरस्वभावः 'सत्त्वं युगे पिशाचादौ बले द्रव्यस्वभावयोः' इति विश्वः । मगधा जनपदाः तेषु प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः । 'प्रतिष्ठा कृत्यमास्पदम्' इत्यमरः। प्रजारञ्जने लब्धवर्णो विचक्षणः यद्वा प्रजारञ्जनेन लब्धोत्कर्षः पराञ्छत्रूंस्तापयतीति परंतपः परंतपाख्यः "द्विषत्परयोस्तापे" इति खच्प्रत्ययः । "खचि ह्रस्व" इति ह्रस्वः । "अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः । नामेति प्रसिद्धौ यथार्थनामा संतापनादिति भावः ।

भाषार्थ—ये राजा शरण में आनेवालों की रक्षा करते हैं और बड़े पराक्रमी हैं ये मगध देश के निवासी हैं और इन्होंने अपनी प्रजाओं को सुख देकर बड़ा नाम कमाया है । इनका नाम परन्तप है जो यथार्थ है क्योंकि ये शत्रुओं को सन्ताप देने वाले हैं ॥ २१ ॥

कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ २२ ॥

अन्वयः—अन्ये सहस्रशः नृपाः कामं सन्तु जना अनेन भूमिं राजन्वतीं आहुः नक्षत्रताराग्रहसंकुला अपि रात्रिः चन्द्रमसा एव ज्योतिष्मती भवति ।

काममिति । अन्ये नृपाः कामं सहस्रशः सन्तु भूमिमनेन राजन्वतीं शोभन राजवतीमाहुः । नैतादृक्कश्चिदस्तीत्यर्थः । 'सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्' इत्यमरः । "राजन्वान्सौराज्ञे" इति निपातनात्साधुः । तथा हि नक्षत्रैरश्विन्यादिभिस्ताराभिः साधारणैर्ज्योतिर्भिर्ग्रहैर्भौमादिभिश्च संकुलापि रात्रि- श्चन्द्रमसैव ज्योतिरस्या अस्तीति ज्योतिष्मती नान्येन ज्योतिषेत्यर्थः ।

भाषार्थ—यद्यपि संसार में हजारों राजा हैं किन्तु इन्हीं से पृथ्वी उस प्रकार श्रेष्ठ राजा वाली कहलाती है । जिस प्रकार तारा ग्रह और नक्षत्रों से भरी रहने पर भी रात्रि चन्द्रमा से ही चांदनी वाली कहलाती है ॥ २२ ॥