रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 236, कुल 735 में से
संदर्भ में पढ़ेंषष्ठः सर्गः १७७
क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्रः ।
शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥ २३ ॥
अन्वयः—अयं अध्वराणां क्रियाप्रबन्धात् अजस्रं आहूतसहस्रनेत्रः सन् चिरं शच्याः अलकान् पाण्डुकपोललम्बान् मन्दारशून्यान् चकार ।
क्रियेति । अयं परंतपोऽध्वराणां क्रतूनां क्रियाप्रबन्धादनुष्ठानसातत्याद् अविच्छिन्नादनुष्ठानादित्यर्थः । अजस्रं नित्यमाहूतसहस्रनेत्रः संश्चिरं शच्या अलकान्पाण्डुकपोलयोर्लम्बास्तन् स्रस्तान् । पचाद्यच् । मन्दारैः कल्पद्रुमकुसुमैः शून्यांश्चकार। प्रोषितभर्तृका हि केशसंस्कारं न कुर्वन्ति “प्रोषिते मलिना कृशा” इति । “क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ॥” इति च स्मरणात् ।
भाषार्थ—सर्वदा यज्ञ करके इन्होंने इन्द्र को अपने यहां बार-बार बुलाया है जिसका फल यह हुआ है कि इन्द्राणी के पीले कपोलों पर लटकने वाले बाल शृङ्गार न होने के कारण कल्पवृक्षों के फूलों से शून्य हो गये हैं । अर्थात् इन्द्र को इनके यज्ञ में आ जाने पर पति के पास न रहने से इन्द्राणी ने शृङ्गार करना छोड़ दिया है ॥ २३ ॥
अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे ।
प्रासादवातायनसंश्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥ २४ ॥
अन्वयः—वरेण्येन अनेन गृह्यमाणं पाणिं इच्छसि चेत् तदा प्रवेशे प्रासादवातायनसंश्रितानां पुष्पपुरांगनानां नेत्रोत्सवं त्वं कुरु ।
अनेनेति । वरेण्येन वरणीयेन वृणोतेरौणादिक एण्यप्रत्ययः । अनेन राज्ञा गृह्यमाणं पाणिमिच्छसि चेत् पाणिग्रहणमिच्छसि चेदित्यर्थः । प्रवेशे प्रवेशकाले प्रासादवातायनसंश्रितानां राजभवनगवाक्षस्थितानां पुष्पपुराङ्गनानां पाटलिपुत्राङ्गनानां नेत्रोत्सवं कुरु । सर्वोत्तमानां तासामपि दर्शनीया भविष्यसीति भावः ।
भाषार्थ—यदि तुम इस श्रेष्ठ राजा के साथ अपना विवाह करना चाहती हो तो इनको राजधानी में प्रवेश करते समय महलों के झरोखों में बैठी हुई पाटलिपुत्र की महिलाओं को अपना दर्शन देकर प्रसन्न करो ॥ २४ ॥
एवं तयोक्ते तमवेक्ष्य किञ्चिद्विस्रंसिदुर्वाङ्कुरमधूकमाला ।
ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा ॥ २५ ॥
अन्वयः—तया एवम् उक्ते सति किञ्चिद्विस्रंसिदुर्वाङ्कुरमधूकमाला तन्वी तं अवेक्ष्य एनं अभाषमाणा ऋजुप्रणामक्रियया एव प्रत्यादिदेश ।
१२ र० सम्पू०