रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 237, कुल 735 में से
संदर्भ में पढ़ें| १७८ | रघुवंशमहाकाव्ये |
|---|
एवमिति। एवं तया सुनन्दयोक्ते सति तं परंतपमवेक्ष्य किंचिद्विस्रंसिनी दूर्वाङ्कुरा दूर्वाचिह्ना मधूकमाला गुडपुष्पमाला यस्याः सा । 'मधूके तु गुडपुष्पमधुद्रुमौ' इत्यमरः । वरणे शिथिलप्रयत्नेति भावः । तन्वीन्दुमत्येनं नृपमभाषमाणम्। ऋज्ज्व्या भावशून्यया प्रणामक्रिययैव प्रत्यादिदेश परिजहार ।
भावार्थ—उस सुनन्दा के ऐसा कहने पर इन्दुमती ने थोड़ी आँख उठाकर उस राजा को देखा, उसके हाथ से दूर्वायुक्त महुए की माला कुछ सरक गई और बिना कुछ कहे ही साधारण रूप से प्रणाम करके उसे अस्वीकार करती हुई आगे बढ़ गई ॥ २५ ॥
तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय ।
समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ॥ २६ ॥
अन्वयः—वेत्रग्रहणे नियुक्ता सा एव तां राजसुतां समीरणोत्था तरंगलेखा मानसराजहंसीं पद्मान्तरं इव राजान्तरं निनाय ।
तामिति । सैव नान्यचित्तज्ञत्वादिति भावः । वेत्रग्रहणे नियुक्ता दौवारिकी सुनन्दा तां राजसुतां राजान्तरमन्यराजानं निनाय । नयतिर्द्विकर्मकः । कथमिव समीरणोत्था वातोत्पन्ना तरङ्गलेखोर्मिपक्तिर्मानसे सरसि या राजहंसी तां पद्मान्तरमिव ।
भावार्थ—जिस प्रकार हवा के झकोरों से उठी हुई लहर मानसरोवर की राजहंसिनी को एक कमल से दूसरे कमल तक पहुँचा देती है उसी प्रकार द्वारपालिका सुनन्दा ने भी राजकुमारी इन्दुमती को उस मगध-नरेश के पास से दूसरे राजा के पास पहुँचा दिया ॥ २६ ॥
जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः ।
विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ॥ २७ ॥
अन्वयः—सुनन्दा एनां जगाद सुरांगनाप्रार्थितयौवनश्रीः सूत्रकारैः विनीतनागः च अयं अङ्गनाथः भूमिगतः अपि ऐन्द्रं पदं भुङ्क्ते किल ।
जगादेति । एनामिन्दुमतीं जगाद । किमिति अयमङ्गनाथोऽङ्गदेशाधीश्वरः सुराङ्गनाभिः प्रार्थिता कामिता यौवनश्रीयंस्य स तथोक्तः पुरा किलैनमिन्द्रसाहाय्यार्थमिन्द्रपुरगामिनमकामयन्ताप्सरस इति प्रसिद्धिः । किं च सूत्रकारैर्गजशास्त्रकृद्भिः पातकादिभिर्महर्षिभिर्विनीतनागः शिक्षितगजः । किलेत्यैतिह्ये । अत एव भूमिगतोऽप्यैन्द्रं पदमैश्वर्यं भुङ्क्ते भूर्लोक एव स्वर्गसुखमनुभवतीत्यर्थः । गजाप्सरोदेवर्षिसेव्यत्वमैन्द्रपदशब्दार्थः । पुरा किल कुतश्चिच्छापकारणाद्भुवमवतीर्ण