भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 507, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 507

४४८ || रघुवंशमहाकाव्ये

वीरासनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥ ५२ ॥

अन्वयः—वीरासनैः ध्यानजुषां ऋषीणां समध्यासितवेदिमध्याः अमी शाखिनः अपि निवातनिष्कम्पतया योगाधिरूढा इव विभान्ति ।

वीरेति । वीरासनैर्जयसाधनैः ध्यानं जुषन्ते सेवन्त इति ध्यानजुषः । समाधि-सेविन इत्यर्थः । तेषां तैरुपविश्य ध्यायतामृषीणां संबन्धिनः समध्यासितवेदि-मध्याः । इदं वीरासनस्थानीयम् । अमी शाखिनोऽपि निवाते निष्कम्पतया योगाधिरूढा इव ध्यानभाज इव विभान्ति । ध्यायन्तोऽपि निश्चलाङ्गा भवन्ति । वीरासने वसिष्ठः—"एकपादमथैकस्मिन्विन्यस्योरुणि संस्थितम् । इतरस्मिस्तथा चान्यं वीरासनमुदाहृतम्" इति ।

भाषार्थ—इस आश्रम के वृक्षों के नीचे वेदियों पर तपस्वी लोग वीरासन लगा-लगाकर ध्यान करते हैं और यहाँ के वृक्ष भी वायु न चलने के कारण ऐसे स्थिर खड़े रहते हैं मानों वे भी योग साधन कर रहे हों ॥ ५२ ॥

त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनामिव गारुडानां स पद्मरागः फलितो विभाति ॥ ५३ ॥

अन्वयः—त्वया पुरस्तात् उपयाचितः श्याम इति प्रतीतः सः अयं वटः फलितः ( सन् ) स पद्मरागः गारुडानां मणीनां राशिः इव विभाति ,

त्वयेति । त्वया पुरस्तात्पूर्वं य उपयाचितः प्रार्थित । तथा च रामायणे—'न्यग्रोधं तमुपस्थाय वैदेही वाक्यमब्रवीत् । नमस्तेऽस्तु महावृक्ष ! पालयेन्मे व्रतं पतिः ॥' इति । श्याम इति प्रतीतः स वटोऽयं फलितः सन् सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव विभाति ।

भाषार्थ—वह काला-काला वही वट का वृक्ष है जिसकी तुमने मनौती मानी थी इसमें लाल-लाल जो फल लगे हैं उनसे यह वृक्ष ऐसा मालूम पड़ता है जैसे नीलम के ढेर में बहुत से लालमणि भरे हों ॥ ५३ ॥

'क्वचित्—' इत्यादिभिश्चतुर्भिः श्लोकैः प्रयागे गङ्गायमुनासङ्गमं वर्णयति—

क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा ।
अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ॥ ५४ ॥

क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पंक्तिः ।
अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ ५५ ॥