रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 79, कुल 735 में से
संदर्भ में पढ़ें| २० | रघुवंशमहाकाव्ये |
|---|
दृष्टिवित्यर्थः । मृग्यश्च मृगाश्च मृगाः । 'पुमान् स्त्रियाः' इत्येकशेषः । तेषां द्वन्द्वेषु मिथुनेषु । 'स्त्रीपुंसोः मिथुनं द्वन्द्वम्' इत्यमरः । परस्पराक्षणां सादृश्यं पश्यन्तौ । द्वन्द्वशब्दसामर्थ्यान्मृगीषु सुदक्षिणाऽक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवक्तव्यम् ।
**भाषार्थ—**विश्वास के कारण मार्ग के पास में स्थित रथ की तरफ देखने वाले मृगों के जोड़ों में परस्पर आँख का सादृश्य देखते हुए (वे दोनों चले) ॥ ४० ॥
मार्गे क्वचित् सारसान् पश्यन्तौ जग्मतुरित्याह—
श्रेणीबन्धाद्वितन्वद्भि रस्तम्भां तोरणस्रजम् ।
सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ॥ ४१ ॥
**अन्वयः—**श्रेणीबन्धात् अस्तम्भां तोरणस्रजां वितन्वद्भिः कलनिर्ह्रादैः सारसैः क्वचित् उन्नमिताननौ ( तौ जग्मतुः ) ।
श्रेणीबन्धादिति । श्रेणीबन्धात्पङ्क्तिबन्धाद्धेतोरस्तम्भामाधारस्तम्भरहिताम् । तोरणं वहिर्द्वारम् । 'तोरणोऽस्त्री वहिर्द्वारम्' इत्यमरः । तत्र या स्रग्विरच्यते तां तोरणस्रजं वितन्वद्भिः । कुर्वद्भिरिवेत्यर्थः । उत्प्रेक्षाव्यञ्जकेव-प्रयोगाभावेऽपि गम्योत्प्रेक्षेयम् । कलनिर्ह्रादैर्व्यक्तमधुरध्वनिभिः सारसैः पक्षिविशेषैः करणैः । क्वचिदुन्नमिताननौ । 'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः' इति यादवः ।
**भाषार्थ—**पंक्तिबद्ध होने के कारण स्तम्भके बिना बन्दनवार की माला के समान बने हुए मधुर शब्द करनेवाले सारसों द्वारा कभी-कभी ऊपर मुँह उठाए हुए चले ।
गच्छतोस्तयोः पथ्यनुकूलवहनमित्याह—
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥ ४२ ॥
**अन्वयः—**प्रार्थनासिद्धिशंसिनः पवनस्य अनुकूलत्वात् तुरगोत्कीर्णैः रजोभिः अस्पृष्टालकवेष्टनौ ( तौ जग्मतुः ) ।
पवनस्येति । प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोरथसिद्धिसूचकस्य पवनस्यानुकूलत्वाद् गन्तव्यदिगभिमुखत्वात् । तुरगोत्कीर्णे रजोभिरस्पृष्टा अलका देव्याः, वेष्टनमुष्णीपं च राज्ञो ययोस्तौ तथोक्तौ । 'शिरसा वेष्टनशोभिना सुतः' इति वक्ष्यति ।
**भावार्थ—**मनोरथ की सिद्धि के सूचक पवन के अनुकूल बहने के कारण घोड़ों से उड़ाई गई धूल से उनके अलक और पगड़ी का स्पर्श न हो सका ॥४२॥