रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 80, कुल 735 में से
संदर्भ में पढ़ेंप्रथमः सर्गः २१
मार्गे कमलानां गन्धं जिघ्रतोस्तयोर्गमनमित्याह—
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥ ४३ ॥
अन्वयः—सरसीषु वीचिक्षोभशीतलं स्वनिःश्वासानुकारिणम् अरविन्दानां आमोदम् उपजिघ्रन्तौ ( तौ जग्मतुः ) ।
सरसीष्विति । सरसीषु वीचिविक्षोभशीतलभूमिसंघट्टनेन शीतलं स्वनिःश्वासमनुकर्तुं शीलमस्येति स्वनिःश्वासानुकारिणम् । एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तम् । अरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्णन्तौ ।
भाषार्थ—तालाबों की लहर के झकोरों से ठण्डी, अपनी श्वास की बराबरी करने वाली कमलों की सुगन्धिको सूँघते हुए (वे दोनों चले) ॥ ४३ ॥
यज्ञे ब्राह्मणेभ्यः प्रदत्ते ग्रामे ग्रामे तेषामाशीर्वादग्रहणमित्याह—
ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः ॥ ४४ ॥
अन्वयः—आत्मविसृष्टेषु यूपचिन्हेषु ग्रामेषु यज्वनां अमोधा आशिषः अर्ध्यानुपदं प्रतिगृह्णन्तौ ( तौ जग्मतुः ) ।
ग्रामेष्विति । आत्मविसृष्टेषु स्वदत्तेषु । यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः । यूपा एव चिह्नानि येषां तेषु ग्रामेष्वमोघाः सफला यज्वनां विधिनिष्टवताम् । 'यज्वा तु विधिनिष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप्' इति ङ्वनिप्प्रत्ययः । आशिषः आशीर्वादन् । अर्घः पूजाविधिः । तदर्थं द्रव्यमर्घ्यम् । 'पादाद्यर्भाभ्यां च' इति यत्प्रत्ययः । 'षट् तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि' इत्यमरः । अर्घ्यस्यानुपदमन्वक् । अर्घ्यस्वीकारानन्तरमित्यर्थः । प्रतिगृह्णन्तौ स्वीकुर्वन्तौ । पदस्य पश्चादनुपदम् । पश्चादर्थेऽव्ययीभावः । 'अन्वगन्वक्षमक्रतुगेऽनुपदं क्लीबमव्ययम्' इत्यमरः ।
भाषार्थ—स्वयं दिये हुए, यज्ञस्तम्भों के चिह्नवाले ग्रामों में यज्ञ करने वाले ब्राह्मणों के अमोघ आशीर्वादों को अर्घ्य के बाद स्वीकार करते हुए वे दोनों चले ।
मार्गे वन्यवृक्षाणां नामानि पृच्छतोस्तयोर्गमनमित्याह—
हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥ ४५ ॥
अन्वयः—हैयंगवीनं आदाय उपस्थितान् घोषवृद्धान् वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ ( तौ जग्मतुः ) ।
हैयङ्गवीनमिति । ह्यस्तनगोदोहोद्भवं घृतं हैयङ्गवीनम् । 'तत्त हैयङ्गवीनं