रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 81, कुल 735 में से
संदर्भ में पढ़ें२२ रघुवंशमहाकाव्ये
यद् ह्योगोदोहोद्भवं घृतम्' इत्यमरः । 'हैयङ्गवीनं संज्ञायाम्' इति निपातः । तत्सद्यो घृतमादायोपस्थितान्घोषवृद्धान् । 'घोष आभीरपल्ली स्याद्' इत्यमरः । वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ । 'दुह्याच्—' इत्यादिना पृच्छतेर्द्विकर्मकत्वम् । कुलकम् ।
भाषार्थ—गाय का ताजा मक्खन लेकर उपस्थित हुए वृद्ध गोपों से जंगली वृक्षों के नाम आदि पूछते हुए (वे चले) ॥ ४५ ॥
तयोर्गच्छतोश्चित्राचन्द्रमसोरिव शोभाऽभूदित्याह—
काऽप्यभिख्या तयोरासीद् व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ ४६ ॥
अन्वयः—हिमनिर्मुक्तयोः चित्राचन्द्रमसोः योगे इव व्रजतोः शुद्धवेषयोः तयोः कापि अभिख्या आसीत् ।
काऽपीति । व्रजतोर्गच्छतोः शुद्धवेषयोरुज्ज्वलनेपथ्ययोस्तयोः सुदक्षिणा-दिलीप-योश्चित्राचन्द्रमसोरिव योगे सति काऽप्यनिर्वाच्याऽभिख्या शोभाऽऽसीत् । 'अभिख्या नामशोभयोः' इत्यमरः । 'आतश्चोपसर्गे' इत्यण्प्रत्ययः चित्रा नक्षत्रविशेषः । शिशिरापगमे चैत्र्यां चित्रापूर्णचन्द्रमसोरिवेत्यर्थः ।
भाषार्थ—चलते हुए निर्मलवेषधारी उन दोनों की हिमनिर्मुक्त चित्रा और चन्द्रमा के संयोग के समान क्या ही अलौकिक शोभा हुई ॥ ४६ ॥
पत्त्यै मार्गेऽद्भुतवस्तुजातं दर्शयतो दिलीपस्य गमनमित्याह—
तत्तद् भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥ ४७ ॥
अन्वयः—प्रियदर्शनः बुधोपमः भूमिपतिः पत्न्यै तत् तत् दर्शयन् लङ्घितं अध्वानम अपि न बुबुधे ।
तत्तदिति । प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः । योगदर्शनीय इत्यर्थः । भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयल्लङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान् । बुधः सौम्य उपमोपमानं यस्येति विग्रहः । इदं विशेषणं तत्तद्दर्शयन्नित्युपयोगितयैवास्य ज्ञातृत्वसूचनार्थम् ।
भाषार्थ—दर्शनीय, विद्वान् पृथ्वीपति दिलीप ने अपनी पत्नी सुदक्षिणा को विभिन्न दृश्य दिखाते हुए पार किये गए मार्ग की थकान अनुभव नहीं की ॥ ४७ ॥
सुदक्षिणादिलीपयोर्वसिष्ठाश्रमप्रापणमित्याह—
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥ ४८ ॥