रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 82, कुल 735 में से
संदर्भ में पढ़ेंप्रथमः सर्गः २३
अन्वयः—दुष्प्रापयशाः श्रान्तवाहनः महिषीसखः स सायं संयमिनः तस्य महर्षेः आश्रमं प्रापत् ।
स इति । दुष्प्रापयशा दुष्प्रापमन्यैर्दुर्लभं यशो यस्य स तथोक्तः । श्रान्तवाहनो दूरोपगमनात्क्लान्तयुग्यः । महिष्याः सखा महिषीसखः । ‘राजाहःसखिभ्यष्टच्’ इति टच्प्रत्ययः । सहायान्तरनिरपेक्ष इति भावः । स राजा सायंकाले संयमिनो नियमवतस्तस्य महर्षेर्वसिष्ठस्याश्रमं प्रापत्तत्राप । पुषादित्वादङ् ।
भाषार्थ—दुर्लभ यशवाले श्रान्तवाहन सुदक्षिणा सहित राजा दिलीप सायंकाल संयमी महर्षि वसिष्ठ के आश्रम पर पहुँचे ॥ ४८ ॥
तमाश्रमं विशिनष्टि—
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः ।
पूर्यमाणमदृश्यग्निप्रत्युद्यातैस्तपस्विभिः ॥ ४९ ॥
अन्वयः—वनान्तरात् उपावृत्तैः समित्कुशफलाहरैः सादृश्याग्निप्रत्युद्यातैः तपस्विभिः आकीर्णम् (आश्रमं प्रापदिति पूर्वेणान्वयः) ।
वनान्तरादिति । वनान्तरादन्यस्माद्वनादुपावृत्तैः प्रत्यावृत्तैः । समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहरास्तैः ‘आङि ताच्छील्ये’ इति हरतेराङ् पूर्वादिन्प्रत्ययः । अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः । प्रत्युद्याताः प्रत्युद्गतास्तैः । तपस्विभिः पूर्यमाणम् । ‘प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति’ इति श्रुतेः । यथाऽऽह—‘कामं पितरं पुत्राः प्रोषितवन्तः प्रत्याधावन्ति । एव ह वा एवमेतमग्नयः प्रत्याधावन्ति सकलान्दारूनिवाहरन्’ इति ।
भाषार्थ—दूसरे वनों से लौटे हुए लकड़ी कुश और फूल लाने वाले अदृश्य अग्नि से अगवानी किए गये और तपस्वियों से व्याप्त आश्रम पर पहुँचे ॥ ४९ ॥
आश्रमस्थमृगवर्णनमित्याह—
आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥ ५० ॥
अन्वयः—उटजद्वाररोधिभिः नीवारभागधेयोचितैः मृगैः ऋषिपत्नीनां अपत्यैः इव आकीर्णम् (आश्रमं प्रापत्) ।
आकीर्णमिति । नीवाराणां भाग एव भागधेयोंऽशः । रूपनामभागेभ्यो धेयप्रत्ययो वक्तव्यः (वा०) इति वक्तव्यसूत्रात्स्वाभिधेये धेयप्रत्ययः, तस्योचितैः । अत एवोटजानां पर्णशालानां द्वाररोधिभिर्द्वाररोधकैर्मृगैऋृषिपत्नीनामपत्यैरिव । आकीर्णं व्याप्तम् ।
भाषार्थ—पर्णशालाओं के द्वारों को रोकने वाले, नीवारधान्य के भाग को