रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 83, कुल 735 में से
संदर्भ में पढ़ें२४ रघुवंशमहाकाव्ये
पाने वाले, ऋषिपत्नियों के बालकों के समान मृगों से परिपूर्ण आश्रम पर गये ॥ ५० ॥
आश्रमस्थपक्षिणां सद्यः सेचिततरूमूलजलपानमाह— सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहङ्गानामावालवाम्बुपायिनाम् ॥ ५१ ॥
अन्वयः—मुनिकन्याभिः सेकान्ते आलवालान्बुपायिनां विहङ्गमानां विश्वासाय तत्क्षणोज्झितवृक्षकम् (आश्रमं प्रापत) ।
सेकान्त इति । सेकान्ते वृक्षमूलसेचनावसाने मुनिकन्याभिः आलवालेषु जलावापप्रदेशेषु यदम्बु तत्पायिनाम् । 'स्यादालवालमावालमावापः' इत्यमरः । विहङ्गानां पक्षिणां विश्वासाय विश्रम्भाय । 'समौ विश्रम्भविश्वासौ' इत्यमरः । तत्क्षणे उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिंस्तम् । ह्रस्वार्थे कप्रत्ययः ।
भाषार्थ—मुनिकन्याओं द्वारा सींचने के बाद गमलों का पानी पीनेवाले पक्षियों के विश्वास के लिए तत्काल छोड़े हुए वृक्षों पौधों वाले आश्रम पर गये ॥ ५१ ॥
तत्रत्यानां मृगाणां रोमन्थवर्त्तनमित्याह— आतपात्ययसंक्षिप्तनीवारासु निषादिभिः । मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥ ५२ ॥
अन्वयः—आतपात्ययसंक्षिप्तनीवारापु उटजाङ्गनभूमिपु निषादिभिः मृगैः वर्तितरोमन्थं ( आश्रमं प्रापत् ) ।
आतपेति । आतपस्यात्ययेऽपगमे सति संक्षिप्ता राशीकृता नीवारास्तृणधान्यानि यासु तासु । 'नीवारास्तृणधान्यानि' इत्यमरः । उटजानां पर्णशालानामङ्गनभूमिषु चत्वरभागेषु 'पर्णशालोटजोऽस्त्रियाम्' इति । अङ्गनं चत्वराजिरे' इति चामरः । निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्थश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ।
भाषार्थ—धूप के अन्त में इकट्ठा किए हुए नीवार वाली पर्णकुटी के आँगन की जमीन में बैठे हुए मृगों द्वारा पागुरी किये जाने वाले (आश्रम में गये) ॥५२॥
तत्रत्यो हुतहवनीयद्रव्यगन्धयुक्तो धूम इत्याह— अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् । पुनानं पवनोद्भूतैर्धूमैराहुतिगन्धिभिः ॥ ५३ ॥
अन्वयः—अभ्युत्थिताग्निपिशुनैः पवनाद्धूतैः आहुतिगन्धिभिः धूमैः आश्रमोन्मुखान् अतिथीन् ( पुनानं आश्रमं प्रापत् ) ।
अभ्युत्थितेति । अभ्युत्थिताः प्रज्वलिताः । होमयोग्या इत्यर्थः । 'समिद्धेऽग्ना-