रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 84, कुल 735 में से
संदर्भ में पढ़ेंप्रथमः सर्गः २५
वाहुतीर्जुहोति' इति वचनात् । तेषामग्नीनां पिशुनैः सूचकैः पवनोद्धूतैः । आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनस्तैर्धूमैराश्रमोन्मुखानतिथीन् पुनानं पवित्रीकुर्वाणम् । कुलकम् । भाषार्थ—प्रज्वलित अग्नि को बताने वाले, हवा से उड़ाये गये आहुति की गन्धवाली धूए से आश्रम की ओर आते हुए अतिथियों को पवित्र करने वाले आश्रम पर पहुँचे ॥ ५३ ॥
आश्रमप्राप्त्यनन्तरं रथादवतरणमाह—
अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः ।
तामवारोहयत्पत्नीं रथादवततार च ॥ ५४ ॥
अन्वयः—अथ सः 'धुर्यान् विश्रामय' इति यन्तारम् आदिश्य तां पत्नीं रथात् अवारोहयत् ( स्वयं ) अवततार च ।
अथेति । अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम् । धुरं वहन्तीति धुर्या युग्याः । 'धुरो यड्ढकौ' इति यत्प्रत्ययः । 'धूर्वहे धुर्यधौरेयधुरीणाः सधुरन्धराः' इत्यमरः । धुर्यान् रथाश्वान्विश्रामय विनीतश्रमान्कुर्वित्यादिश्याज्ञाप्य तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार । 'विश्रमय' इति ह्रस्वपाठे 'जनीजॄष्-' इति मित्त्वे 'मितां ह्रस्वः ।' इति ह्रस्वः । दीर्घपाठे 'मितां ह्रस्वः' इति सूत्रे 'वा चित्तविरागे' इत्यतो 'वा' इत्यनुवर्त्य व्यवस्थितविभाषाऽऽश्रयणाद्दीर्घ- स्वाभाव इति वृत्तिकारः ।
भाषार्थ—'घोड़ों की थकावट दूर करो' सारथी को ऐसी आज्ञा देकर उस सुदक्षिणा को रथ से उतारा और स्वयं उतरे ॥ ५४ ॥
मुनयो दिलीपार्हणां चक्रुरित्याह—
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥ ५५ ॥
अन्वयः—गुप्ततमेन्द्रियाः सभ्याः मुनयः गोप्त्रे अर्हते नयचक्षुषे सभार्याय तस्मै अर्हणां चक्रुः ।
तस्मा इति । सभायां साधवः सभ्याः । 'सभाया यः' इति यप्रत्ययः । गुप्ततमेन्द्रिया अत्यन्तनियमितेन्द्रिया मुनयः सभार्याय गोप्त्रे रक्षकाय । नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे । अत एवार्हणां पूजां चक्रुः । 'पूज्यायेत्यर्थः । 'अर्हः प्रशंसायाम्' इति शतृप्रत्ययः । तस्मै राज्ञेऽर्हणां पूजां चक्रुः । 'पूजा नमस्याऽपचितिः सपर्यार्चाऽऽर्हणाः समाः' इत्यमरः ।