रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 357, कुल 1049 में से
संदर्भ में पढ़ें२८० रामायणमीमांसा अष्टम पाद्मं च पञ्चपञ्चाशत्सहस्राणि निगद्यते । ( २ पाद्म में ५५००० श्लोक ) तृतीयं वैष्णवं नाम त्रयोविंशतिसंख्यया । ( ३ वैष्णव में २३००० श्लोक ) चतुर्थं वायुना प्रोक्तं वायवीयमिति स्मृतम् । शिवभक्तिसमायोगाच्छैवं तच्चापराख्यया ॥ चतुर्विंशतिसंख्यातं सहस्राणि तु शौनक । ( ४ वायुपुराण में २४००० श्लोक ) चतुर्भिः पर्वभिः प्रोक्तं भविष्यं पञ्चमं तथा । चतुर्दशसहस्राणि तथा पञ्चशतानि च ॥ ( ५ भविष्य १४५०० श्लोक ) मार्कण्डं नवसाहस्रं षष्ठं तत्परिकीर्तितम् ॥ ( ६ठा मार्कण्डेय ९००० श्लोक ) आग्नेयं सप्तमं प्रोक्तं सहस्राणि तु षोडश । ( ७वां आग्नेय १६००० श्लोक ) अष्टमं नारदीयं तु प्रोक्तं वै पञ्चविंशतिः । ( ८ वां नारदीय २५००० श्लोक ) नवमं भागवतं नाम भागद्वयविभूषितम् । तत्राष्टादश साहस्रं प्रोच्यते ग्रन्थसंख्यया । ( ९वां भागवत १८००० श्लोक ) दशमं ब्रह्मवैवर्तं तावत्संख्यमिहोच्यते । ( १०वां ब्रह्मवैवर्त १८००० श्लोक ) लैङ्गमेकादशं ज्ञेयं तथैकादशसंख्यया । भागद्वयविरचितं तल्लिङ्गमृषिपुङ्गव ॥ ( ११ वां लैङ्ग ११००० श्लोक ) चतुर्विंशतिसाहस्रं वाराहं द्वादशं विदुः ॥ ( १२ वां वाराह २४००० श्लोकं ) विभक्तं सप्तभिः खण्डैः स्कान्दं भाग्यवतांवर । तदेकाशीतिसाहस्रं संख्यया वै निरूपितम् ॥ ( १३ वां स्कान्द ८१००० श्लोक ) ततस्तु वामनं नाम चतुर्दशतमं स्मृतम् । संख्यया दशासाहस्रं प्रोक्तं कुलपते पुरा ॥ ( १४ वां वामन पुराण १०००० श्लोक ) कौर्मं पञ्चदशं प्राहुर्भागद्वयविभूषितम् । दशसप्तसहस्राणि पुरा संख्यायते कलौ ॥ ( १५ वां कौर्म १७००० श्लोक ) मात्स्यं मत्स्येन यत्प्रोक्तं मनवे षोडशं क्रमात् । तच्चतुर्दशसाहस्रं संख्यया वदतांवर ॥ ( १६ वां मत्स्य १४००० श्लोक ) गारुडं सप्तदशमं स्मृतं चैकोनविंशतिः । ( १७ वां गारुड १९००० श्लोक ) अष्टादशं तु ब्रह्माण्डं भागद्वयविभूषितम् । तच्च द्वादशसाहस्रं शतमष्टसमन्वितम् ॥ ( १८ वां ब्रह्माण्ड १२८०० श्लोक ) यहाँ पुराणों को ब्रह्मप्रोक्त कहा गया है । इदं ब्रह्मपुराणस्य सुलभं सौरमुत्तमम् । संहिंताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम् ॥ आद्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता । सनत्कुमारनाम्ना हि तद्विख्यातं महामुने ॥ द्वितीयं नारसिंहं च पुराणे पाद्मसंज्ञिते । शौनकेयं हि तृतीयं पुराणे वैष्णवे मतम् ॥ बार्हस्पत्यं चतुर्थं च वायव्यं सम्मतं सदा । दौर्वाससं पञ्चमं च स्मृतं भागवते सदा ॥