भारतकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 358, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 358

भविष्ये नारदोक्तं च सूरिभिः कथितं पुरा । कापिलं मानवं चैव तथैवोशनसेरितम् ॥ ब्रह्माण्डं वारुणं चाथ कालिकाद्वयमेव च । माहेश्वरं तथा साम्बं सौरं सर्वार्थसञ्चयम् ॥ पराशरं भागवतं कौर्मं चाष्टादशं क्रमात् । एतान्युपपुराणानि मयोक्तानि यथाक्रमम् ॥ ( स्कन्दपुराण रेवाखण्ड उत्तरार्ध १ ) “पुराणमेकमेवासीत् सर्वकालेषु मानद । चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम् ॥ प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः । कालेनाग्रहणं दृष्ट्वा पुराणस्य महामतिः ॥ हरिर्व्यासस्वरूपेण जायते च युगे युगे । चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥ तदष्टादशधा कृत्वा भूर्लोके निर्दिशत्यपि । अद्यापि देवलोके तु शतकोटिप्रविस्तरम् ॥ अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते । ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च ॥ भागवतं नारदीयं मार्कण्डेयं च कीर्तितम् । आग्नेयं च भविष्यं च ब्रह्मवैवर्तलिङ्गके ॥ वाराहं च तथा स्कान्दं वामनं कूर्मसंज्ञकम् । मात्स्यं च गारुडं तद्वद् ब्रह्माण्डाख्यमिति त्रिषट् ॥” ( बृह० ना० पु० पूर्वभाग ९२।२२-२८ ) ऊपर के वचनों में कहा गया है कि चतुर्वर्ग का बीज शतकोटिप्रविस्तर पुराण पहले एक ही था । उसी से सब शास्त्रों की प्रवृत्ति हुई है । युगह्रास से सामान्य मेधावाले पुरुषों के लिए उनका ग्रहण करना असंभव जानकर भगवान् हरि व्यासरूप में प्रकट होकर प्रति द्वापर में चतुर्लक्ष श्लोकात्मक १८ पुराणों को भूलोक में प्रकट करते हैं । देवलोक में अब भी पुराण शतकोटिप्रविस्तर ही है । उसका सार ही १८ पुराणों में वर्णित है । “ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते । तृतीयं वैष्णवं चैव चतुर्थं शैवमुच्यते ॥ अथ भागवतं प्रोक्तं पञ्चमं षष्ठमुच्यते । भविष्यं नारदीयं च सप्तमं परिकीर्तितम् ॥ मार्कण्डेयमिति प्रोक्तमष्टमं नवमं तथा । आग्नेयं ब्रह्मवैवर्तं दशमं परिकीर्तितम् ॥ लैङ्गं च वामनं चैव स्कान्दं मात्स्यमथैव च । कौर्मं वाराहमुदितं गारुडं वाथ कीर्तितम् ॥ ब्रह्माण्डमित्यष्टादश पुराणानि विदुर्बुधाः ।