रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 478, कुल 1049 में से
संदर्भ में पढ़ेंअध्याय बालकाण्ड ४०१ गौतमोऽपि च तद् दृष्ट्वा सम्यग्भार्याविचेष्टितम् । ददौ शापं महाराज कोपसंरक्तलोचनः ॥१४॥ यस्माच्छक्र पापकर्म कृतमीदृग् विगर्हितम् । भार्या मे दूषिता साध्वी तस्मादवृषणो भव ॥१५॥ सहस्रं च भगानां ते वक्त्रे भवतु मा चिरम् । येन त्वं विप्लवं यासि त्रैलोक्ये सचराचरे ॥१६॥ अपरं मर्त्यलोकेऽत्र यद्यागच्छसि वासव । पूजाकृते ततो मूर्धा शतधा ते भविष्यति ॥१७॥ एवं शप्त्वा च तं शक्रं ततोऽहल्यामुवाच सः । कोपसंरक्तनेत्रस्तु भर्त्सयित्वा मुहुर्मुहुः ॥१८॥ यस्मात्पापे त्वया कर्म कृतमेतद् विगर्हितम् । तस्माच्छिलामयी भूत्वा त्वं तिष्ठ वसुधातले ॥”१९॥ ( स्कन्दपु० नागरखण्ड अध्याय २०७ ) अर्थ—उपर्युक्त वचनों में कहा गया है कि अहल्या के सौन्दर्य से मोहित होकर काम के वशीभूत हो इन्द्र सदा अहल्या के पास आया करते थे । नारदजी ने गौतम से इन्द्र-अहल्या का सब वृत्तान्त बताया । यह सुनकर गौतम तुरन्त घर गये । इन्द्र भयभीत होकर विवस्त्र ही भागे । अहल्या भी भयभीत हो गयी । गौतम ने इन्द्र को सहस्र भग होने का शाप दिया और यह भी कहा कि मर्त्यलोक में आते ही तुम्हारा मूर्धा शतधा विदीर्ण हो जायेगा । अहल्या को शिला होने का शाप दिया । “पुराभूद् गौतमो नाम त्रिकालज्ञो महामुनिः । अहल्येति च तस्यासीद् भार्या रूपजिताप्सराः ॥१३७॥ एकदा रूपलुब्धस्तामिन्द्रः प्रार्थितवान् रहः । प्रभूणां हि विभूत्यन्धा धावत्यविषये मतिः ॥१३८॥ सानुमेने च तं मूढा वृषस्यन्ती शचीपतिम् । तच्च प्रभावतो बुद्ध्वा तत्रागाद् गौतमो मुनिः ॥१३९॥ मार्जाररूपं चक्रे च भयादिन्द्रोऽपि तत्क्षणम् । कः स्थितोऽत्रेति सोऽपृच्छदहल्यामथ गौतमः ॥१४०॥ एसो ठिओ खु मज्जारो इत्यपभ्रष्टवक्त्रया । गिरा सत्यानुरोधिन्या सा तं प्रत्यब्रवीत् पतिम् ॥१४१॥ सत्यं त्वज्जार इत्युक्त्वा विहसन् स ततो मुनिः । सत्यानुरोधकृत्सान्तं शापं तस्यामपातयत् ॥१४२॥ पापशीले शिलाभावं भूरिकालमवाप्नुहि । आ वनान्तरसंचारिराघवालोकनादिति ॥१४३॥ वराङ्ग्लुब्धस्याङ्गे ते तत्सहस्रं भविष्यति । दिव्यस्त्रीं विश्वकर्मा यां निर्मास्यति तिलोत्तमाम् ॥१४४॥ ५१