रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 554, कुल 1049 में से
संदर्भ में पढ़ेंअध्याय अरण्यकाण्ड ४७७
करिष्यसे किमनया वद राघव साम्प्रतम् । श्रुत्वा स नोक्तपूर्वं तु वाक्यं लक्ष्मणभाषितम् ॥१३६॥ विमना राघवस्तस्थौ सीता चापि वरानना ॥१३७॥ श्रीराम उवाच एह्युत्तिष्ठस्व सौमित्रे व्रजामो दक्षिणां दिशम् । सौमित्रिरब्रवीद् वाक्यं नाहं यास्ये कथञ्चन ॥१३९॥ व्रज त्वमनया सार्धं भार्यया कमलेक्षण ॥१४०॥ अनारतं दिवा चाहं रात्रौ चैव परन्तप ॥१४६॥ कर्म कर्तुं न शक्नोमि व्रज सौम्य यथासुखम् ॥१४७॥ मा मानुव्रज सौमित्र एको यास्यामि काननम् । द्वितीया मे त्वियं सीता रामेणोक्तस्तु लक्ष्मणः ॥१५२॥ अथ गृह्य समुत्तस्थौ रामवाक्यं स लक्ष्मणः । मर्यादापर्वतं प्राप्तः क्षेत्रसीमां परन्तप ॥१५३॥ इन्द्रमार्गां नदीं प्राप्य जटाजूटं नियम्य च । विहस्य लक्ष्मणेत्युक्त्वा इदमर्पय मे धनुः ॥१८१॥ नापराध्यामि रामस्य कर्मणा मनसा गिरा। उभौ हस्तौ मुखे कृत्वा साश्रुकण्ठोऽब्रवीदिदम् ॥१८६॥ स्पृष्टौ ते चरणौ देव मम नान्या गतिर्भवेत् । ततः सीताब्रवीद् रामं त्यक्तः किमनुजस्त्वया । वैषम्यं त्यज्यतां बाले लक्ष्मणे लक्ष्मिवर्धने ॥१८७॥ राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम् ॥ न कदाचिदपि स्वप्ने लक्ष्मणस्येदृशं प्रिये । श्रुतपूर्वं च सुश्रोणि क्षेत्रस्यास्य विचेष्टितम् ॥१८८॥ अत्र क्षेत्रे न सौभ्रात्रं सर्वे हि स्वार्थतत्पराः । परस्परं न मन्यन्ते स्वार्थनिष्ठैकहेतवः ॥१८९॥ न शृण्वन्ति पितुः पुत्राः पुत्राणां च तथा पिता । न शिष्यो हि गुरोर्वाक्यं शिष्यस्यापि तथा गुरुः ॥ अर्थानुबन्धिनी प्रीतिर्न कश्चित्कस्यचित्प्रियः १॥”१९०॥ × × × “हत्वैनं राघवं सुप्तं सीतां पत्नीं विधाय च। किं गच्छामि निजस्थानं विदेशं वापि दूरतः ॥ लक्ष्मणोऽपि धनुः सज्यं कृत्वा सन्धाय सायकम् । अनुव्रजति पृष्ठस्थस्तस्य च्छिद्रं विलोकयन्२ ॥” × × ×
१. पद्मपुराण सृष्टिखण्ड अध्याय १९ श्लो० १२६-१९० बालमण्डनतीर्थ-माहात्म्य । २. स्कन्दपुराण नागरखण्ड अ० २० ।