रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 733, कुल 1049 में से
संदर्भ में पढ़ें६५६ रामायणमीमांसा विंश “अश्विना हे अश्विनौ देवौ । सोमिनः सोमवतो यजमानस्य । गृहम् । रथेन । गच्छथः । स मार्गः वां युवयोः । दूरके दूरदेशे । नहि अस्ति । यद्वा यत्र गृहे गच्छथः तद् गृहं दूरे नहि भवति ।” हे अश्वि देवताओं, आप रथ के द्वारा सोमयाजी यजमान के घर में जाते हैं, आप दोनों के लिए यजमान का गृह कहीं भी हो दूर नहीं है । इन सब वेद-मन्त्रों से विष्णु का अवतार तथा विष्णु आदि देवताओ का विग्रह एवं रथ आदि दोनों का होना सिद्ध होता है । “स यत्कूर्मो नाम । एतद्वै रूपं कृत्वा प्रजापतिः प्रजा असृजत । यदसृजताकरोत्त्तद्यदकरोत्तस्मा- त्कूर्मः । कश्यपो वै कूर्मस्तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति ।” ( श० ब्रा० ७।५।१।५ ) “अथ कूर्म इति नाम्नः प्रवृत्तिनिमित्तं दर्शयति—स यत्कूर्म इति । एतत् कूर्मसम्बन्धि । रूपम् आत्मनः कृत्वा । प्रजापतिः । प्रजा असृजत । असृजतेत्यस्य व्याख्यानम्—यदसृजताकरोदिति । असृजत इति यत् तत् अकरोत् इत्यर्थः । तत् तेन कूर्मरूपेण अकरोदिति यत् तस्मादकरोदिति कूर्मः इति कूर्मशब्दो नामधेयार्थः । कश्यपो वा इत्यादिकस्यायमर्थः कूर्मशब्दस्य करणप्रवृत्तिनिमित्तकत्वात् । कश्यपस्य प्रजापतित्वेन प्रजाकारकत्वात् कश्यपः कूर्मः खलु । अत एव सर्वाः प्रजाः काश्यप्य इति आहुर्जनाः । अतश्च कूर्मस्य कश्यपात्मकत्वात् तदुपधानं प्रशस्तमिति भावः ।” प्रजापति परमेश्वर ने कूर्मरूप धारण कर प्रजा की रचना की है । असृजत का अकरोत् अर्थ होता है । वह ‘कृञ्’ धातु का रूप है । करने के कारण ही उनका नाम ‘कूर्म’ हुआ । ‘कूर्म’ को ‘कश्यप’ कहा जाता है । उससे निर्मित होने के कारण प्रजा ‘काश्यपी’ कही जाती है । इससे ईश्वर का ‘कूर्म’ रूप धारण करना सिद्ध है । अथ वराहविहृतम् । इयत्यग्र आसीदितीयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री तामेष इति वराह उज्जघान सोऽस्याः पतिः प्रजापतिस्तेनैवेनमेतन्मिथुनेन प्रियेण धाम्ना समर्धयति कृत्स्नं करोति ‘मखस्य तेऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्णे' इत्यसावेव बन्धुः ॥” ( श० ब्रा० १४।१।२।११ ) वराह से विहृत मृत्तिका की प्रशंसा के प्रसङ्ग में कहा गया है कि यह पृथिवी पहले प्रादेशमात्र ही थी; वराह ने उसका उत्खनन किया; वही वराह उसका पति हुआ, अतएव उस वराहविहृत मृत्तिकारूप प्रिय मिथुन को अग्नि का धाम बनाकर सम्पूर्ण मख को समृद्ध बनाया जाता है और उससे देव-यजन में यज्ञ का शिरसंधान किया जाता है । यहाँ प्रसिद्ध रसातल से पृथिवी का उद्धार करनेवाले वराहरूपधारो विष्णु या प्रजापति का उल्लेख है । 'आपो वा इदमग्रे सलिलमासीत्तस्मिन् प्रजापतिर्वायुर्भूत्वाचरत्सः । इमामपश्यत्तां वराहो भूत्वाहरत्तां विश्वकर्मा भूत्वा व्यमाट् सा प्रथत ।।' (तै०सं० ७।१।५।१) “अथ त्रिरात्रं विधातुं काचिदाख्यायिकोच्यते । तस्यां चाख्यायिकायामादौ पृथिव्युत्पत्तिं दर्शयति— आपो वेति । इदमितीदानीं दृश्यमानं गिरिनदीसमुद्रादिकं जगत् पृथिव्युत्पत्तेः पूर्वं सलिलमासीत् । तस्मिन्नेव सलिले केवला आप एव न तु भूतान्तरं तत्कार्यं वा किञ्चिदपि आसीत् । तदानीं प्रजापतिर्मूर्तस्य शरीरस्यावस्थातुं स्थानाभावाद् वायुरूपो भूत्वा तस्मिन् सलिले सर्वत्राचरत् । चरित्वा च सलिले निमग्नां भूमि दृष्ट्वा स्वयं वराहो भूत्वा दंष्ट्राग्रेण तां भूमिं जलस्योपर्याहरत् । आहृत्य च वराहरूपमुत्सृज्य विश्वकर्मा भूत्वा विशेषेण मार्जनं कृत्वा तत्रत्यं द्रवमपनोय तां विस्तारितवान् । तत इयं दृश्यमाना सर्वप्राण्याधारभूता पृथिवी अभवत् । प्रथनादेव पृथिवीनाम सम्पन्नम् । ( इति सायणभाष्यम् )