भारतकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 972, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 972

अध्याय रामायण आदि का रचना-काल ८९५ वेदशैलावतीर्णेन नीरजस्का मही कृता । कलशब्दमहाहंसं महाख्यानपराम्वुजम् ॥ कथाविस्तीर्णसलिलं काष्णं वेदं महाह्रदम् । तदिदं भारताख्यानं बह्वर्थमिह विस्तरम् ॥ तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः ।" इति एतेन उपाख्यानसहितस्य महाभारतस्य वेदव्यासैककर्तृकत्वं सिद्धयति । किञ्च विरोधा- भावत्वं सकलशास्त्रसम्प्रदायसमन्वितत्वं च । सूतसंहितायां अ० १- “व्यस्तवेदतया व्यास इति लोके श्रुतो मुनिः । अयं साक्षान्महायोगी व्यासः सर्वज्ञ ईश्वरः ॥ महाभारतमाश्चर्यं निर्ममे भगवान् गुरुः ।” इति “कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यः पुण्डरीकाक्षाद् महाभारतकृद् भवेत् ॥ देवीभागवते अ० १- “अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमतुलं चक्रे तदुपबृंहितम् ॥” श्रीमद्भागवते स्कन्ध १ अ० ५- “स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥” मत्स्यपु० अ० ५५- “अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमखिलं चक्रे तदुपबृंहितम् ॥” “प्रकाशो जनितो लोके महाभारतचन्द्रमाः ।” इति स्कन्दपु० प्रभासखण्ड अ० २ ‘सत्यवतीसुतः•••• •••• •••• •••• •••• •••• । भारताख्यानमकरोद् वेदार्थैरुपबृंहितम् ॥ लक्षेणैकेन तत् प्रोक्तं द्वापरान्ते महात्मना ।” शौनकोक्तचरणव्यूहपरिशि० ९ “लक्षं तु चतुरो वेदा लक्षं भारतमेव च ॥” गीताध्यायान्ते इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्याम् इत्यादि । आर्यासप्तशत्यां गोवर्द्धनाचार्यकृतायाम् (१०८०-११३० मध्ये) “व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे । भूषणतयेव संज्ञां तदेकतां भारती वहति ॥” एतानि सर्वाणि वचनानि महाभारतस्य लक्षग्रन्थात्मकतां व्यासैककर्तृकतां महाभारतभारत- नामभ्यामेक एव ग्रन्थः इत्यादिकं ऐककण्ठ्येन निःसंशयेन च उद्घोषयन्ति । उपर्युक्त विविध पुराणवचनों में कहा गया है कि लक्ष श्लोकों का महाभारत व्यासकृत है । व्यास सर्वज्ञ विष्णु के अवतार ही हैं । महाभारत सब वेदों का एवं शास्त्रों का समन्वित सार है ।