रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 155, कुल 558 में से
संदर्भ में पढ़ें१३२ रसार्णवे कान्ताभ्रशैलविमला मिलन्ति सकलान्¹ क्षणात् ॥ ३३ ॥ लताछुछुन्दरीमांसं² विषटङ्कणयोजितम् । मूषालेपेन³ कुरुते सर्व्वद्वन्द्वेषु⁴ मेलनम् ॥ ३४ ॥ अभ्रकं सुरसा शृङ्गं⁵ मण्डूकस्य वसा विषम् । गुञ्जाटङ्कणयोगेन⁶ सर्व्वसत्त्वेषु⁷ मेलनम् ॥ ३५ ॥ टङ्कणोर्णागिरिजतु-कर्णाख्यामलकर्कटैः⁸ । मिलन्ति सर्व्वद्वन्द्वानि स्त्रोतोन्यपरिपेषितैः ॥ ३६ ॥ धातकीगुग्गुलुगुड़⁹-सर्जयावकटङ्कणैः¹⁰ । स्त्रोतोन्यपेषितैः सर्व्वं¹¹ द्वन्द्वजं तु रसायने ॥ ३७ ॥ खसत्त्वं सूक्ष्मचूर्णं तु¹² पूर्व्वकल्केन संयुतम् । अन्धमूषागतं¹³ ध्मातं शङ्करं मिलति क्षणात् ॥ ३८ ॥ वापितं¹⁴ ताप्यरसक¹⁵-सस्यकैर्दरदेन च । खसत्त्वं स्यान्निवहं च¹⁶ दृढं ध्मातं मिलेत्ततः ॥ ३९ ॥ . रसोपरसलोहानि सर्व्वाण्यकत्र धामयेत् ।
(1) K reads सकल. (2) M reads चुचुन्दरीमांस. (3) मूखालिपेम, an incorrect reading in K. (4) M reads सब द्वन्द्वेषु. (5) क्षाराभ्रं सुरशृङ्गञ्च, a variant in M. (6) M reads लेपेन. (7) M reads सर्व सर्वेषु. (8) कर्णाक्षौमौनकर्कटौ, a variant in K. (9) धातु- गुग्गुलुगुड़, a variant in K. (10) सर्जायवकटङ्गणैः, a variant in M. (11) M reads श्लक्ष्णो. (12) सूक्ष्मचूर्णेन यत्किञ्चित्, a variant in K, (13) K reads अन्धमूखागत, which is inc. (14) M reads पावितं, which is not technical. (15) K reads ताप्यरसकं. (16) खसत्वं चाग्निवसञ्च, a variant in M.