भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 156, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 156

अष्टमः पटलः । १२१ अन्योन्यं द्वन्द्वतां यान्ति¹ द्रवन्ति² सलिलं यथा ॥ ४० ॥ बीजानि कल्पितान्येवं³ रञ्जितानि परं⁴ शृणु ॥ ४१ ॥ घनं⁵ माक्षिकचूर्णेन शुल्बचूर्णेन रञ्जितम् । द्वन्द्वितं ताप्यसत्त्वेन⁶ रसराजस्य रञ्जनम् ॥ ४२ ॥ आरक्तवल्लीगोमूत्रैः⁷ बहुधा परिभावितैः⁸ । कुनटीगन्धपाषाणै⁹हेममाक्षिकहिङ्गुलैः¹⁰ ॥ ४३ ॥ वापितं सेवितं रक्त¹¹गणैः स्नेहैरमृतं¹² ततः । रञ्जनं रसराजस्य तीक्ष्णताम्रौ¹³ विशेषतः ॥ ४४ ॥ केवलं विमलं ताम्रं वापितं¹⁴ दरदेन च¹⁵ । कुरुते त्रिगुणं जीर्णं लाक्षारसनिभं रसम्¹⁶ ॥ ४५ ॥ रसकं द्विगुणं¹⁷ दत्त्वा ताम्रं सुध्मातमोखरि । कृष्णाभ्रकस्य चूर्णं च रक्तवर्गैर्मुहुः¹⁸ पुटैः ॥ ४६ ॥


(1) अन्योन्यद्वन्द्वतामेति, a variant in M. (2) M reads द्रवन्तौ, which is gram. incorrect. (3) M has कल्पितान्येव. (4) M reads वर, which is not correct. (5) M reads वन, which has no clear sense. (6) द्वन्द्वजं वाप्यसत्वेन, a reading in K, which seems to be erroneous. (7) आरक्तवल्लीभिर्मूत्रै', a variant in K. आरक्तवर्गगणित, a variant in M. (8) गोमूत्रं बहुभावितैः, a variant in M. (9) M reads पाषाण. (10) M reads हिङ्गुलम्. (11) M reads रक्तै. (12) M reads गणस्नेहमृतं. (13) M reads तीक्ष्णताम्रं. (14) K reads वापीतं, which is inc. (15) M reads वा. (16) K reads रसः, which is grammatically inc. (17) द्विगुणं रसकं, a reading in K. (18) M reads रक्तवर्गै मुहुः.