रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 157, कुल 558 में से
संदर्भ में पढ़ें१३४ रसार्णवे ताप्येन वा मृतं हेम त्रिगुणेन निवापितम्¹ । भाण्डिकायां² तु रसकं ताप्य³सैन्धवसंयुतम् ॥ ४७ ॥ इन्द्रगोपनिभं यावत् सत्त्वं द्विगुणजारणात् । द्रुतं⁴ हेमनिभं सूतं कुरुते नात्र संशयः ॥ ४८ ॥ अभ्रकं हेम ताम्रं च शिलया⁵ माक्षिकेण च । गैरिकेण च मुख्येन रसकेन च रञ्जयेत् ॥ ४६ ॥ बीजानि रञ्जितान्येवं⁶ पक्वबीजान्यतः⁷ शृणु ॥ ५० ॥ महारसानुपरसान्⁸ तीक्ष्णलोहानि च चयेत्⁹ । समांशं सममाक्षिकं गन्धकावापयोगतः ॥ ५१ ॥ शतशो वापयेदेतत्¹⁰ अच्छौषं सावशेषितम्¹¹ । समांशं रसराजस्य गते द्रवति निक्षिप्तम्¹² ॥ ५२ ॥ तदेतद्द्विष्टिकास्तम्भे जारणायां सुरेश्वरि । रञ्जने रसराजस्य सारणायां च शस्यते ॥ ५३ ॥ तदेवं¹³ शतशो रक्तगणैः स्नेहन्निषेचितम्¹⁴ । (1) M reads विपाचितम्. (2) हुण्डिकायां, a reading in K. (3) K reads रसकताप्य. M reads रसकान्तगव्य, which is unintelligible. (4) M reads मृत. (5) M reads शिलायां. (6) बाजानां रञ्जना- म्ब्येव, a variant in M. (7) M reads पक्वबीजमतः. (8) M has महारसानूपरसा. (9) K reads वच्चाते, which is gram. inc. M reads कीष्णलोहानि, which is unintelligible. (10) शतशो वा भवेदेतत्, a variant in M. (11) K has an incomplete charaṇa—अच्छौ सावशेषितं. (12) This charana and the next three charanas are not found in K. (13) M reads तदैव. (14) K has निषेचित. M has रक्तगणस्नेहा—षञ्चितम्.