रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 158, कुल 558 में से
संदर्भ में पढ़ेंअधिकं¹ शस्यते तेषु सहस्रांशिन वेधकृत्² ॥ ५४ ॥ निर्व्यूढं नागवङ्गाभ्यां क्रियायां हेमतारयोः । खसत्त्वं रविणा योज्यं हन्दितं स्याद्रसायनं ॥ ५५ ॥ सस्नेहक्षारपञ्चाम्बैः³ रसैस्तैस्तालकादिभिः⁴ । समद्विच्रिगुणान् ताम्रे⁵ वाहयेद्वङ्गपन्नगान् ॥ ५६ ॥ रक्तस्नेहनिषिक्तं तद्ग्रासकृतिरिति⁶ स्मृतम् ॥ ५७ ॥ माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम्⁷ । वैक्रान्तकं कान्तमुख्यं⁸ सस्यकं विमलाञ्जनम् । रसकं वापि तं शश्वत्⁹ चूर्णितं हेम्नि वाहयेत् ॥ ५८ ॥ लोहपर्पटिकाताम्य¹⁰-कङ्कुष्ठविमलाभ्रकैः । मृतशुल्ब¹¹शिलात्तत-सुह्यर्कक्षारहिङ्गुलैः । नागो निर्जीवतां¹² याति पुटयोगैः पुनः पुनः ॥ ५६ ॥ रसतालकशङ्खाभ्र¹³-चिञ्चाक्षारैस्तथा त्रपुः¹⁴ । मृतं नागं मृतं वङ्गं शुल्बं तीक्ष्णञ्च वा मृतम् ।
पाद-टिप्पण्यः (Footnotes)
(1) K reads बंधक. (2) M reads वेधयत्. (3) सस्नेहजारक- दाम्नैः, a variant in K. (4) र्वारिभिस्तालकादिभिः, a variant in M. (5) समद्विच्रिगुणांस्ताम्रे, a variant in M. (6) M reads तद्ग्रासाभिरिति च, which seems to be gram. incorrect. (7) M reads erroneously मनशिला. (8) M has काकमुख. (9) K reads वापि शतशः (10) K reads लोहपर्पाटिकां ताव्य. (11) M reads शिल्य. (12) K reads नांग्ये निर्जीवतां, which is inc. (13) रसतालकगङ्गाभ्र, a variant in K. (14) K reads त्रपु.