रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 179, कुल 558 में से
संदर्भ में पढ़ें१५६ रसार्णवे इति श्रीपार्वतीपरमेश्वरसंवादे¹ रसार्णवे रससंहिताया रसशोधनो नाम² दशमः पटलः ॥१०॥ — एकादशः पटलः ॥ ❖ श्रीदेव्युवाच¹ । लक्षणं शोधनं चैव पारदस्य श्रुतं मया । चारणं जारणं चैव श्रोतुमिच्छामि भैरव ॥ १ ॥ श्रीभैरव उवाच² । सर्व्वपापक्षये जाते³ प्राप्यते रसजारणा⁴ । तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं⁵ मुक्तिकारकम् ॥ २ ॥ मोक्षाभिव्यञ्जकं⁶ देवि जारणं साधकस्य तु । यावन्न जार्य्यते⁷ सूतः तावत्तु न च निर्वृतिः⁸ ॥ ३ ॥ (1) This is wanting in M. (2) K and M read रसशोधनं नाम. — (1) M has only देवी. (2) M has only भैरवः. (3) K reads सर्व्वपापक्षयं तस्य. (4) K reads रसजारणात्. (5) M has. विज्ञानां. (6) M reads मोक्षाभिव्यञ्जनं. (7) यावत् सुजीर्य्यते, a variant in K. यावन्न जायते, a variant in M. (8) K has an in- complete charana—तावन्न च तिष्ठति,.