रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 192, कुल 558 में से
संदर्भ में पढ़ेंएकादशः पटलः । १६८ बालस्तु पत्रलेपेन कल्कयोगेन यौवनः¹ । वृद्धो² विध्यति लोहानि जारितः सारितोऽथवा ॥ ७८ ॥ कुमारस्तु रसो देवि न समर्थो रसायने । यौवनस्थो रसो³ देवि क्षमो देहस्य रक्षणे ॥ ७९ ॥ जरावस्थो रसो यश्च देहे लोहेन संक्रमेत्⁴ । अभावेऽभ्रकसत्त्वस्य⁵ कान्तसत्त्वं प्रदापयेत् ॥ ८० ॥ कान्तस्य चाप्यभावे⁶ तु तीक्ष्णलोहन्तु दापयेत् । अनेन क्रमयोगेन सर्व्वसत्त्वानि जारयेत्⁷ ॥ ८१ ॥ एकोऽपि हेमसंयुक्तश्चामीकरकरः क्षणात् । गन्धकात् परतो नास्ति रसेषूपरसेषु वा⁸ ॥ ८२ ॥ पूर्व्वोक्तयन्त्रयोगेन⁹ द्विषड्गुणगन्धकम्¹⁰ । अथवा द्वादशगुणं षड्गुणं¹¹ वापि जारयेत्¹² ॥ ८३ ॥ माक्षिकं¹³ सत्त्वमादाय पादांशेन तु¹⁴ जारयेत् । ततोऽपि सर्व्वसत्त्वानि द्रावयेत् सूतगर्भतः ॥ ८४ ॥
(1) M reads यौवनः, which is incorrect. [Here अर्चादित्वात् अण्.] (2) K reads वृद्धौ, which is incorrect. (3) K reads यौवनस्थोरसो. (4) K reads संक्रमे, which is an error of the scribe. M reads देहलाहथ. (5) अभावे अभ्रसंसत्त्वस्य, a reading in M. (6) K reads वाप्यभावे. (7) M reads रञ्जयेत्. (8) K reads च. From this hemistich, some portion is wanting in B. (9) M has पूर्वोक्तयागयन्त्रे ण. (10) K reads द्विषड्गुं गन्धकं, which is incomplete. (11) K has षट्गुणं (12) M has वा विजारयेत्. (13) M reads माक्षिक। (14) तु is wanting in K. 22