रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 196, कुल 558 में से
संदर्भ में पढ़ेंएकादशः पटलः । १७३ षड्भागं सूतकेन्द्रस्य तेषु सर्व्वेषु दापयेत् ॥ १०३ ॥ भक्षितव्यं प्रयत्नेन¹ नत्वा च गुरुदेवयोः । सर्व्वसिद्धानमस्कृत्य देवताश्च विशेषतः ॥ १०४ ॥ मूर्च्छाङ्गदाहश्च² ततो जायते³ नात्र संशयः । आत्मानमुत्थितं पश्येत् दिव्यतेजो⁴महाबलम् ॥ १०५ ॥ शङ्खकाहल⁵निर्घोषैः सिद्धविद्याधरैः सह । इच्छया विचरेल्लोकान् कामरूपो⁶ विमानगः ॥ १०६ ॥ देवास्य⁷ यत्र लीयन्ते सिद्धस्तत्रैव लीयते ॥ १०७ ॥ पुनरन्यं प्रवक्ष्यामि जारणा⁸योगमुत्तमम् ॥ १०८ ॥ सुघृष्टं पादितं⁹ सूतं सर्व्वदोषोज्झितं ततः¹⁰ । शाकपल्लवसारेण विष्णुक्रान्ता¹¹रसेन च ॥ १०९ ॥ पलाश¹²पुष्पतोयेन भावितं गन्धकं समम् । समं¹³ कृष्णाभ्रसत्त्वञ्च रसकञ्चाष्टकं गुणम् ॥ ११० ॥ तीक्ष्णाङ्खोरगञ्चैव कूर्म्मयन्त्रेण जारयेत् । (1) After this we find two redundant charanas in K, which are as follow—रसे यासं तु दापयेत् । रचितव्यं प्रयत्नेन. (2) मूर्च्छांगदाहं च, an incorrect reading in K. मूर्च्छादाहश्च, an incomplete reading in M. (3) K reads जायंते, which is gram. inc. (4) M reads incorrectly दिव्यतोजी. (5) K reads संखकाहल, which appears to be incorrect. (6) K reads कामरुपो. (7) K reads देवा वै. (8) K reads जारणं. (9) K has सुदृढं पानिनं. (10) This charana is wanting in K. (11) M reads विष्णुक्रान्त. (12) K reads पालाश. (13) K reads सेवं.