रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 214, कुल 558 में से
संदर्भ में पढ़ेंएकादशः पटलः । १८१ अच्छयं कठिनं खेतं¹ खोटबन्धस्य लक्षणम् ॥ २०७ ॥² खोटादयस्तु ये पञ्च³ विहाय जलुकाकृति⁴ । हठाग्नौ धमिताः सन्ति⁵ न तिष्ठत्येव⁶ मूर्च्छितः ॥२०८॥ तरुणादित्यसंकाशो नानावर्णः⁷ सुरेश्वरि । वेधयेद्वहलोहानि रञ्जितो रसभैरवः ॥ २०६ ॥ शोधनं सूतकस्यादौ ग्रासमानमतः परम् । जारणं व्योमसत्त्वस्य सर्व्वसत्त्वस्य⁸ जारणम् ॥ २१० ॥ गर्भबाह्यद्रुतिः पश्चात् सुवर्णस्य तु जारणम् । दिव्यौषधिपुटः⁹ पश्चात् रत्नबन्धमतः परम्¹⁰ ॥ २११ ॥ रञ्जनञ्च ततो देवि जारणा चानुसारणा¹¹ । क्रामणञ्च ततो देयं¹² सूतकस्य विचक्षणैः ॥ २१२ ॥ एवं क्रमं तु यो वेत्ति तस्य सिद्धिर्न संशयः ॥ २१३ ॥
(1) B reads कठिनश्वेत. (2) This śloka is not found in M. (3) खोटाद्यैस्तु ये पञ्च, a variant in K. खोटादयंस्तु ये पञ्च, a variant in M. Both the readings are incorrect. (4) विद्यया जलुकाकृतिः, a variant in K. विद्यया जुलुकाकृतिः, a variant in M. Both of them are incorrect. (5) हठाग्नौ धासिताऽसंति, an erroneous reading in B. अधौ धमितः, an incomplete reading in K. हठामौ धामितस्सभिः, a reading of unintelli- gible sense. (6) K reads संतिष्ठत्येव, which is just the opposite in sense. (7) B reads नामवर्णं. (8) K reads सर्व्वे सत्वस्य, which is inc. (9) B reads पुट K reads दिव्यौषधौपुटे. M reads दिव्यौ- षधपुटः. (10) K reads रत्नबद्धमतः पर. M reads रत्नबन्धनतः परम्. (11) K. reads चानुसारणान्. M reads जारणायानुजारखी Both seem to be inc. (12) K reads क्रामणन्तु. M reads देयं:, which is gram. inc.