रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 215, कुल 558 में से
संदर्भ में पढ़ें१९२ रसार्णवे वेधकं यस्तु जानाति¹ देहे लोहे² रसायने । तस्य जन्म³ जरा व्याधिर्नश्यत्येव न संशयः ॥ २१४ ॥ देहे तु पञ्चरत्नानि⁴ नागं वङ्गं तथाऽयसम्⁵ । क्रामणं रसराजस्य भेषजं व्याधिनाशनम्⁶ ॥ २१५ ॥ औषधैः⁷ क्रमते सूतो योगशक्तिक्रमेण⁸ तु । क्रमते⁹ व्याधिसंघाते ध्वंसंते दुष्टमामयम् ॥ २१६ ॥ तस्य तु क्रामणं ज्ञात्वा¹⁰ ततो वैद्यैरुपाचरेत्¹¹ । क्रामणेन विना सूतो न क्रमेत्¹² न च वेधयेत् । देहलोहामयान् सर्व्वान्¹³ वृथा स्यात् केवलं¹⁴ श्रमः ॥२१७ यस्य रोगस्य यो योग¹⁵स्तेनैव सह¹⁶ योजयेत् । रसेन्द्रो हरति व्याधीन्¹⁷ नरकुञ्जरवाजिनाम् ॥ २१८ ॥ (१) वेधक यो न विजानाति, a variant in B, wherein न is incorrect. (२) M reads देहदृहे, which is incorrect. (३) The word जन्म is not found in B. (४) B reads दृढे, which is inc. M reads पञ्चरक्तानि, which is also inc. (५) नागवंगं तथायसे, a variant in M. (६) B has व्याधिनाशने (७) K reads चौषधिः. (८) B has योगमुक्ति- क्रमण. M has व. र उक्तः क्रमेण. (९) M reads कामतो, which appears to be inc. (१०) B reads तन्माणं. K reads कामणां. M reads तत्तत् क्रामणक वाद्य. (११) वैद्यैरूपाचयेत्, a reading in B. (१२) B reads क्रामित्. K reads कार्की. (१३) K has देहलोहमयान् संधान्. M reads देहलोहमयान् सर्व्वान्. (१४) K reads केवलः. M has रसः स्यात् केवलश्रमः. (१५) M reads यो योगैः, which is gram. inc. (१६) K reads स instead of सह. (१७) B reads व्याधिं. K reads हरते व्याधिं.