रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 248, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः । २२५ रक्तं पीतं सितं कृष्णं¹ तस्याः पुष्पं प्रजायते । चणकस्येव पत्राणि सुप्रसूतानि लक्षयेत्² ॥ १५१ ॥ सा स्थिता गोमतीतीरे³ गङ्गायामर्बुदे⁴ गिरौ । उज्जयिन्या⁵ दक्षिणातो वनान्तेषु च दृश्यते⁶ ॥ १५२ ॥ तस्याः कन्दरसं⁷ दिव्यं कृष्णराजि⁸समन्वितम् । ताम्बूलेन⁹ समं कृत्वा गुटिकां¹⁰ कारयेद्बुधः ॥ १५३ ॥ सर्वेषामेव लोहानां¹¹ द्रुतानां वह्निमध्यतः¹² । सहस्त्रं वेधयित्वा तु काञ्चनं कुरुते क्षणात् ॥ १५४ ॥ तथैव म्रियते सूतः¹³ कान्तहेमाभ्रसंयुतः । कुरुते काञ्चनं दिव्यं देवाभरणभूषणम् ॥ १५५ ॥¹⁴ (1) श्वेतं पीतं सितं कृष्णं, a variant in D. श्वेतं पीतं सितं कृष्णं, a variant in K. (2) D reads भनयेत्. M reads सुप्रभूतानि. (3) साक्षी- गतामन्तरे तीरे, an absurd variant in D. K reads गौतमीतीरे. M reads सा स्थिरा. (4) D has गङ्गायाथाश्रयं. M has गङ्गायमर्बुदे. Both the texts seem to be incorrect. (5) K reaus उज्जयिन्यां. (6) वनं तेषु च दृश्यंते, a variant in D वनां तेषु न दृश्यते, a variant in K. Both the readings seem to be incorrect. (7) D reads कान्तरसं, which has no clear sense. K and M read तस्य, which is gram. inc. (8) D reads कृष्वरक्त. K reads कृष्णराति. (9) D has तव कृष्णेन. (10) M reads घटकां, which is evidently incorrect. (11) D reads सर्वेषामपि वस्तूनां. (12) D has वह्निभूतानां मध्यतः. दत्तान् वह्निमध्यगं, an absurd variant in K. (13) D reads मृतं and reads its adjec- tive संयुतः. But M reads सूतं and reads its adjective संयुक्तः, which is gram. incorrect. (14) This hemistich is wanting in D and M. 29