रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 266, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः । २४३ निश्चिता मर्त्यलोके सा¹ सम्यक् ते² कथयाम्यहम् ॥२३५॥ अस्ति मर्त्ये महापुण्या³ पवित्रा दक्षिणापथे⁴ । नदी गोदावरी नाम प्रसिद्धा जाह्नवी यथा⁵ ॥ २३६ ॥ दक्षिणे च तटे⁶ तस्याः कदलीनगरं परम्⁷ । तस्य दक्षिणतः शैलः सर्व्वलोकेषु विश्रुतः ॥ २३७ ॥ नाम्ना कृष्णगिरिखेति⁸ दृश्यते सर्व्वमङ्गले⁹ । सुप्रसिद्धाम्बिका नाम ग्राम¹⁰स्तस्यास्ति सन्निधौ ॥ २३८ ॥ तत्राप्युदक¹¹मालोक्य परीक्ष्येत¹² सुरार्चिते ॥ २३८ ॥ गृहीत्वा शुष्कवंशं तु¹³ क्षिपेत्तोयस्य मध्यतः । जायते हरितं स्निग्ध¹⁴महोरात्रेण निश्चितम्¹⁵ । (1) निर्जित्वा मर्त्यसौके सा, a variant in D, which is incorrect. (2) D reads मव्यक्तां, which is incorrect. (3) D has an incorrect read- ing—माहपुण्या. (4) D reads दक्षिणामये, which is incorrect. (5) D has यथा, which is not correct. (6) M reads तथा. (7) कदलीवनशंकरम्, a variant in D. K reads वरं. M reads उत्पलीभवं परम्. (8) D has कृष्ण गौरीश्चेति, which is incorrect. (9) D reads सर्वमङ्गलम्. K reads सर्वमंगलः. (10) This word is wanting in D. (11) D reads तत्राप्युटक, which is not accurate. (12) M has an incomplete reading—परीत्त. (13) M reads युक्तवस्त्रम्, which is not appropriate here. M reads गृहीत्वा, which is not univer- sally correct. (14) K reads हरितस्निग्धः. (15) महोरात्रौसिञ्चित, an incorrect variant in D. K reads मिवित. The term is सिक्तं and not सिञ्चित, though the latter is proper here