रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 272, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः । २४८ वर्षमेकं पिबेत्तोयं¹ जीवेच्चन्द्रार्कतारकम् । तस्य मूत्रपुरीषेण² शुल्बं भवति काञ्चनम् ॥ २६५ ॥ उष्णोदकञ्च कासीसं³ गन्धपाषाणसंयुतम् । चतुर्थांशेन रसकं दशभागं विनिर्क्षिपेत्⁴ ॥ २६६ ॥ शुल्बञ्च मर्दयेत् सर्व्वं नष्टपिष्टं क्षणेन तु⁵ । तेन लेपितमात्रेण शुल्बं भवति काञ्चनम् ॥ २६७ ॥ निषिक्तं तेन तोयेन प्रतिवापं ददेद्बुधः⁶ । शुल्बञ्च जायते हेम तरुणादित्यवर्चसम्⁷ ॥ २६८ ॥ तज्जलेन निषिक्तञ्च हेम वीजार्थसंयुतम् ।⁸ तारं चानेन मार्गेण⁹ निषिक्तं हेमतां व्रजेत्¹⁰ ॥ २६९ ॥ उष्णोदकेन भल्लातं तिलपिष्टं¹¹ च भक्षयेत् । मासद्वयप्रयोगेण¹² जीवेद्वर्षशतत्रयम् ॥ २७० ॥ रसगन्धाश्मरसकं¹³ तुत्थं¹⁴ दरदमाक्षिकम्¹⁵ ।
(1) This charana is not found in M. (2) M reads मूत्रपुरीषाभ्यां. (3) K reads काशीस. (4) K reads विनिःक्षिपेत्. (5) K reads चयेण तु. (6) ददेत् is an ungrammatical term. दद्यात् is the pro- per one. (7) तत्क्षणादित्यशोभन, a variant in M. (8) This hemistich is not found in M. (9) K reads erroneously मार्पणं. (10) M reads ब्रजेत्, which is incorrect. (11) K reads तिलसृष्टिं. (12) M has मासद्वयपर्याप्तञ्जीत्, which is incorrect. (13) रसकन्धाम- रसकं, a variant in M. (14) K reads तुल्थ. (15) K reads माक्षिया, which is incorrect. 32