रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 413, कुल 558 में से
संदर्भ में पढ़ें३८० रसार्णवे तमुपायं प्रवक्ष्यामि मार्दवं येन जायते ॥ १०७ ॥ घृतं दधि पयः^१ क्षौद्रं विल्वजम्बीरकद्रवैः^२ । गुड़स्तैलसमायुक्तो^३ निषेकात्^४ मृदुकारकः^५ ॥ १०८ ॥ गजदन्ता हयनखा^६ मेषशृङ्गं च सैरिभम्^७ । कम्बु^८निर्याससंयुक्तं सप्तवारं निषेचयेत्^९ ॥ १०९ ॥ सहस्रधा स्फुटितं दलं भजति^१० मार्दवम् ॥ ११० ॥ ज्योतिष्मतीकुसुम्भानां^११ तैले कारञ्जकेऽपि वा^१२ । निषेकः शस्यते^१३ऽत्यर्थं कनकस्य विचक्षणैः ॥ १११ ॥ आवर्त्यमानं तारे च^१४ यदि तन्नैव^१५ निर्मलम् । काचटङ्कणवापेन क्षिप्रं निर्मलतां व्रजेत् ॥ ११२ ॥ मधुक^१६मधुमेषाख्य-सौराष्ट्रीगुड़सैन्धवैः^१७ । (1) B reads घृतसृष्टिमधु. (2) विल्वजंबीरकंदल्नि, a variant in B. (3) गुड़तैलसमायुक्ता, an incorrect variant in D. (4) D and K read वावयेत्. (5) D has मृदुकारकम्. K has मृदुकारकै. (6) B reads हयनखो. (7) शृङ्गं चैव सैन्धवं, an incomplete charaṇa in D. मेषीशृङ्गं च सैंधवं, a variant in K. (8) D and K read कङ्गे, which seems to be incorrect. (9) D reads सप्तवाराणि सेचयेत्. (10) D has सहस्रधा वस्फुटितं दले भवति. K has सहस्रधा च स्फुटते दले भवति. (11) ज्योति- र्मत्तसुभानां, an incomplete charaṇa in B. (12) कारंजिकैऽपि वा, a reading in D. (13) K reads सास्यते. (14) B reads तारेष. K reads तत्तारे. (15) D reads तं नैव, which is incorrect. (16) B, D and K read मधुकं, which is not accurate. (17) D reads गन्धमेध्वम्.