रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 414, कुल 558 में से
संदर्भ में पढ़ेंसप्तदशः पटलः । ३८२ शुक्तिकाम्बुखुरावापं¹ चन्द्रार्कं मृदु जायते ॥ ११३ ॥ मधुतैलघृतैश्चैव² वत्समूत्रे निषेचनात्³ । जायते खरसत्त्वानां दलानाामपि मार्दवम् ॥ ११४ ॥ चिञ्चारसेन सामुद्रैः क्षीरे चार्कस्य⁴ वह्निना । विशुद्धं जायते तारं शङ्कुकुन्देन्दुसन्निभम् ॥ ११५ ॥ यदि तन्निर्मलं⁵ नैव तदा⁶ तद्वत् पुनः पचेत् । विधिरेष⁷ समाख्यातस्तारकर्मणि पूजितः ॥ ११६ ॥ कङ्गुणी⁸तैलमञ्जिष्ठा-हरिद्रायष्टुकुङ्कुमम् । निषेकात् कुरुते हेम बालार्कसदृशप्रभम् ॥ ११७ ॥ शुल्कार्धं गन्धकं दत्त्वा तदर्धं मृतसूतकम्⁹ । चाङ्गेरी¹⁰स्वरसेनेव मर्दयेद्वासरत्रयम् ॥ ११८ ॥ मृतं¹¹ चित्ररसेनेव लेपयेद्धेम पाण्डुरम् । पक्त्वा¹² पञ्चमृदा देवि हेमोत्कर्षसमुत्तमम् ॥ ११९ ॥ (1) सिक्तमम्बुखुरावापं, a variant in D. मुक्तिकचुलुगवापं, a variant in K. (2) मधु तैलं घृतं चैव, a variant in D. मधुतैलघृतं चैव, a variant in K. (3) वत्स्याभिष निषेचयेत्, a variant in B. वत्समूलानि सेचनात्, a variant in D. Both the variants have no clear sense. (4) D reads क्षीरं वार्कस्य, wherein the first term is incorrect. (5) B and D read सं निर्मलं, which is incorrect. (6) D reads तद्य. (7) D reads erroneously विधिरैषा. K reads विधिरेव. (8) K has कंगुणि. (9) B has मृतपारदं, which seems to be incorrect. (10) B reads, श्राङ्गेरी, which appears to be incorrect. (11) D reads द्रावितं, which mars the metre. (12) D and K read काया.