रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
DevanagariHindipublished558 पृष्ठ
पृष्ठ 412, कुल 558 में से
संदर्भ में पढ़ेंपृष्ठ 412
सप्तदशः पटलः । ३८९ पादमेतत्सुरासेकै¹र्जायते नखपाण्डुरम् ॥ १०० ॥ त्रयोऽयस्कान्तभागाः² स्युरारतारद्वयं तथा । वङ्गस्य³ दश भागाः स्युस्तारवेधेन⁴ वेधयेत् ॥ १०१ ॥ आरस्य द्विगुणं तारं तारात् कान्तं चतुर्गुणम् । कान्तादष्टगुणं⁵ वङ्गं तारवेधेन वेधयेत्⁶ ॥ १०२ ॥ तालं सूतं समं कृत्वा वज्रीक्षीरेण मर्दितम् । पुटं दत्त्वा तु यन्त्रेण सत्त्वं पतति शोभनम् ॥ १०३ ॥ वङ्गमावर्त्य देवेशि वज्रीक्षीरेण⁷ पेषयेत् । एकविंशतिवाराणि वङ्गशोधनमुत्तमम् ॥ १०४ ॥ तद्वङ्गं जारयेत् सूतं समं वा⁹ द्विगुणादिकम् ॥ १०५ ॥ भल्लातराजिकातैल¹⁰-शङ्खचूर्णविडेन च¹¹ । नागवङ्गे भवेत्तेन समं वङ्गेन सारणात्¹² ॥ १०६ ॥