रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 169, कुल 799 में से
संदर्भ में पढ़ेंषष्ठस्तरङ्गः १२७ कज्जली द्विगुणगन्धनिर्मिता यष्टिकावृषकणाभयाक्षकैः । बर्बरीस्वरसभाविता भृशं श्वासकासतमकामयापहा ॥११८॥ समानगन्धनिर्मिता सनिम्बुकाम्लनागरा । कणान्विता तु कज्जली हरेदजीर्णमुद्धतम् ॥११९॥ एलाहिफेनकर्पूरजातीफललवङ्गकैः । समैः सुचूर्णिता ख्याता कज्जली स्वप्नमेहनुत् ॥१२०॥ शिंशपासारतैलेन नवनीतेन वाऽनिशम् । लिप्ता कज्जलिका शीघ्रं जीर्णं चर्मदलं हरेत् ॥ १२१ ॥ द्विभागधूर्तपत्राढ्या कज्जली मन्थजान्विता । चित्रकद्रव्यसंपिष्टा कण्डूपामादिकं हरेत् ॥१२२॥ कज्जली सैन्धवोपेत। रविदुग्धेन पेषिता । गण्डेषु लेपनादेव नाशयेद् गण्डमालिकाम् ॥१२३॥ वराकौशिकचूर्णेन समुपैता तु कज्जली । वातारितैलसंयुक्ता सर्वामयविनाशिनी ॥१२४॥ कज्जली द्विगुणगन्धनिर्मिता गव्यमन्थजयुता निषेविता । नाशयेत्तु ह्युपदंशमुद्धतं पथ्यमत्र लवणोज्झितं मतम् ॥१२५॥ समगन्धकयोगेन कृता कज्जलिका खलु । लेपनान्नवनीतेन गजचर्महरा मता ॥१२६॥ कज्जली सितयोपेता धात्रीस्वरससंयुता । शीलिता नाशयत्याशु सर्वानैव मदात्ययान् ॥१२७॥ धत्तरबीजस्वरसपेषिता खलु कजली । सव्योषा नस्ययोगेन सन्निपातं निपातयेत् ॥१२८॥ आमयिक प्रयोगे — द्राविडी एला, चन्द्रः कर्पूरः, तोयदो मुस्ता । वरुणा- दिकृषायः सुश्रुतनिर्दिष्टः । मधुश्चैत्राख्यो मासस्तज्जातेन मधुना क्षौद्रेण समेते- ऽर्थः । अथवा मधुर्वसन्तः तत्र जातेन निष्कासितेन इति यावत् । वासन्तिकेन मधुना समेता इति योज्यम् । अभया हरीतकी, अक्षकः विभीतकः, बर्बरी वन- तुलसी, अहिफेनादीनां ग्राहित्वात् स्वप्नमेहन्यपोहः । शिंशपासारः तदीयं तत्समुत्थं तैलम् । मन्थजं नवनीतम् । वरा त्रिफला, कौशिकं गुग्गुलुः । गज- चर्म कुष्ठविशेषः ॥ ११३-१२८ ॥ भा.टी.—पारद गन्धक की समभाग कजली को छोटी इलायची, काली मिर्च, कपूर, नागरमोथा, लौंग और बेर की मींगी के चूर्ण के साथ मिला मधु से सेवन करने पर वमन बन्द हो जाती है । पारद से द्विगुण गन्धक