भारतकोश
संग्रह पर लौटें

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

प्रारंभिक पृष्ठ, मंगलाचरण एवं पारद-माहात्म्य

रसतरंगिणी श्रीकविराजनरेन्द्रनाथमित्रमहोदयान्तेवासिना प्राणाचार्य श्रीसदानन्दशर्मणा विरचिता आयुर्वेदाचार्यश्रीहरिदत्तशास्त्रिरचिता प्रसादिनीव्याख्यया प्रदर्शिताऽपि आयुर्वेदाचार्यश्रीधर्मानन्दशास्त्रिणा 'रसविज्ञान' नाम्न्या हिन्दीभाषया विभूषिता । सा चेयम् श्रीकाशीनाथशास्त्रिणा सम्पादिता मोतीलाल बनारसीदास दिल्ली वाराणसी पटना बंगलोर मद्रास

This page is blank and contains no text to transcribe.

6-3 S.C. रसतरङ्गिणी श्रीमत्प्रणदाचार्यश्रीसदानन्दशर्मणा विरचिता श्रीयुत हरदत्तशास्त्रीप्रणीत 'प्रसाद' नामक टीकयोपेता 'प्रसाद' विमर्शाभ्यां समुल्लसिता च । संपादक एवं व्याख्याकार आयुर्वेदाचार्य पं० श्रीकाशीनाथशास्त्री 'भिषग्रत्न' 'विमर्श' हिन्दीव्याख्या प्रत्यक्षशारीर विमर्षसहिता । द्वितीय संस्करण चौखम्बा संस्कृत सीरीज वाराणसी मोतीलाल बनारसीदास दिल्ली • वाराणसी • पटना बङ्गलोर • मद्रास

यह पृष्ठ रिक्त है (इसमें कोई मुद्रित या पठनीय पाठ्य सामग्री उपलब्ध नहीं है)।

रसतरङ्गिणी प्राणाचार्यश्रीसदानन्दशर्मणा विरचिता आयुर्वेदाचार्यश्रीहरिदत्तशास्त्रिणा कृतया प्रसादनीव्याख्यया समुद्भासिता च। आयुर्वेदाचार्य पं० धर्मानन्दशास्त्रिणा 'रसविज्ञान' नामकहिन्दीभाषया वक्तव्येन च विभूषिता। सा चेयम् पं० काशीनाथशास्त्रिणा सम्पादिता मोतीलाल बनारसीदास दिल्ली वाराणसी पटना बंगलोर मद्रास

ग्यारहवां संस्करण : दिल्ली, १६७६ पुनर्मुद्रण : दिल्ली, १६८२, १६८६ © मो ती ला ल ब ना र सी दा स मुख्य कार्यालय : बंगलो रोड, जवाहरनगर, दिल्ली ११० ००७. शाखाएँ : चौक, वाराणसी २२१ ००१ अशोक राजपथ, पटना ८०० ००४ . २४ रेसकोर्स रोड, बंगलौर ५६० ००१ १२० रायपैट्टा हाई रोड, मैलापुर, मद्रास ६०० ००४ मूल्य : रु० ८५ (सजिल्द) ५५ (अजिल्द) नरेन्द्रप्रकाश जैन, मोतीलाल बनारसीदास, दिल्ली ७ द्वारा प्रकाशित तथा जैनेन्द्रप्रकाश जैन, श्री जैनेन्द्र प्रेस, ए-४५ नारायणा, फेज-१, नई दिल्ली-२८ द्वारा मुद्रित ।

ॐ समर्पणम् गुणगणभूषण- परमविचक्षण- लब्धसुशिक्षणकीर्तेः। प्रणयपरीक्षण- सदयनिरीक्षण- मधुरमनोहरमूर्तेः॥ मित्रकुलोद्भव- सज्जनवैभव- वैद्यकत्थितबुद्धेः। रसनिगमोदित- सुबहुपरीक्षित- मार्गकृतेशविशुद्धेः॥ श्रीमत्परमपूज्यायुर्वेदार्णवकर्णधारशिरोमणेः श्रीगुरुवर्य्यकविराजनरेन्द्रनाथमित्रमहोदयस्य करकमलयुगले समर्प्यते इयं रसतरङ्गिणी तथा च— यदेव सततं मया ह्यधिगतं भवद्द्रव्यतः पुरा तदेव खलु साम्प्रतं बत समर्पयेयं कथम्। तथापि विनयानतो लघुनिबन्धरूपेण तत् भवद्धृदयतुष्टये किमिव नार्पयेयं मुदा॥ इति निवेदयति घिल्डियालोपाह्वः सदानन्दशर्मा

भूमिका अयि आयुर्वेदाणर्वकर्णधारधुरीणाः ! रसनिगमपारावारपारीणाः ! प्राणाचार्य- शिरोमणयः ! विदिततरमेवैतत्सर्वेषां तत्रभवतां सवतां यत्खुरभारतीयसाहित्यस्य गौरवास्पदभूतासु रसमूलिकाशास्त्राभिधेयासु तिसृष्वपि चिकित्सासु रसचिकित्साया एव प्राधान्यम् । अतएव आमनन्त्येवं वृद्धवैद्याः— “उत्तमो रसवैद्यस्तु मध्यमो मूलिकादिभिः । अधमः शस्त्रदाहाभ्याम्” अपि च रसचिकित्सकचूडामणिना श्रीगोपालकृष्णेन रसेन्द्रसारसंग्रहनामक- स्वसंगृहीतग्रन्थोपकमेऽपि समर्थितमस्य प्राशस्त्यम् । तथाहि “अल्पमात्रोपयोगित्वादरुचेरप्रसंगतः । क्षिप्रमारोग्यदायित्वादौषधेभ्योऽधिको रसः ॥” एतावत्तैवास्या रसचिकित्सायाः प्राशस्त्यमध्यवसीयते यदिदमादिदेवेन महा- देवेन शतसहस्रपषनिबद्धसंहितात्मकतया सर्वप्रथममाविष्कृतेति । अपि च समुपेयसुखावहपदार्थप्रधानभूतस्य पुरुषार्थचतुष्टयस्योपजनकरत्वेन कियदुपादेयत्वमस्येति सुधीभिरेव निर्धारवधेयम् । पुरुषार्थचतुष्टयप्रयोजकत्वं चास्याः सुविदितमेव सर्वेषां वैद्यविद्याविदाम् । तथाहि--निःशुल्कौषधदानरोगिनिरीक्षणादिना आर्तत्राणरूपः, सन्निपाताद्यात्ययि- कामयेषु प्राणप्रदत्वेन नवजीवनदानरूपश्च धर्मः, प्रचुरार्थराशिशाळिनां धनपतिवि- रुद्भाजां चिकित्साकरणेन अर्थोदयः, निरुक्तरीतिसमुपार्जितधनेन कामश्च समुल्ल- सतीति निर्विवादम् । आयुर्वेदांगभूतस्य रसशास्त्रस्य मोक्षाभिधायकत्वं च रसार्णवादिप्राचीनार्षग्रंथेषु षड्दर्शनादिविलक्षणतया प्राधान्येनैव प्रतिपादितम् । मन्यन्ते च प्राचीना रसाय- नाचार्याः प्रधानप्रयोजनं रसशास्त्रस्य मोक्षावाप्तिसाधनम् । तथाहि-- श्रीदेव्युवाच—त्वत्प्रसादाच्छ्रुतं सर्वमशेषमवधारितम् । यदि तेऽहमनुग्राह्या यद्यहं तव वल्लभा ॥ श्रीभैरव उवाच--साधु साधु महाभागे ! साधुपर्वतनन्दिनि ! ।

( ५ ) साधु पृष्टं त्वया देवि ! भक्तानां हितकाम्यया ॥ अजरामरदेहस्य शिवतादात्म्यवेदनम् । जीवन्मुक्तिर्महादेवि देवानामपि दुर्लभा ॥ पिण्डपाते च यो मोक्षः स च मोक्षो निरर्थकः । पिण्डे तु पतिते देवि ! गर्दभोऽपि विमुच्यते ॥ षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने । करामलकवत्सापि प्रत्यक्षं नोपलभ्यते ॥ देवानामपि देवेशि ! दुर्लभं पिण्डधारणम् । किं पुनर्मानुषाणां तु धरणीतलवासिनाम् ॥ तेन पिण्डो महादेवि रक्षणीयः प्रयत्नतः । यावन्न हरबीजं तु भक्षयेत्पारदं रसम् । तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ ( रसार्णवप्रथमपटलः ) श्रीमद्भगवद्गोविन्दपादाश्चैवमाममन्ति— इति धनशरीरभोगान् मत्वाऽनित्याः सदैव यतनीयम् । मुक्त्यै सा च ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे ॥ स्थिरदेहोऽभ्यासवशात् प्राप्य ज्ञानं गुणाष्टकोपेतम् । प्राप्नोति ब्रह्मपदं न पुनर्मचवासदुःखानि ॥ नहि देहेन कथंचिद् व्याधिजरामरणदुःखविधुरेण क्षणभंगुरेण सूक्ष्मं तद् ब्रह्मोपासितुं शक्यम् ॥ अस्मिन्नेव शरीरे येषां परमात्मनो न संवेदः देहत्यागादूर्ध्वं तेषां तद् ब्रह्म दूरतरम् । तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं दिव्या तनुर्विधेया हरगौ- रीसृष्टिसंयोगात् । ( रस० हृ० त० प्र० प्र० ) अस्याश्च रसचिकित्सायास्तन्त्रकाराः—श्रीशङ्कर-नन्दीश्वर-भैरवब्रह्मविष्णु-दत्ता- त्रेयप्रभृतयो देवाः अगस्त्य-कपिल-मालुकि-व्याडिमत्तमायडव्यादयो महर्षयः, चन्द्रसेन-लङ्केश-विशारद-भास्कर-सुरसेन-रत्नकोश-स्वच्छन्दभैरव-मन्थानभैरव- काकचण्डीश्वर-नरवाहन-कपालिक-रसेन्द्रतिलक-सुरानन्द-यशोधन-गोमुख-नरेन्द्र- मैथिल-स्कन्द-भगवद्गोविन्द पाद-प्रभृतयः प्राचीना रससिद्धाः नागार्जुन-भैरवनाथ-

सोमनाथ-सिद्धनाथ-चर्पटीनाथ-गोरक्षनाथ-मत्स्येन्द्रनाथादयश्च प्रसिद्धा बहवो रस- सिद्धा महानुभावाः समजायन्त । रसतन्त्रेषु च रसेन्द्रसंहिता-दत्तात्रेयसंहिता-अगस्त्यसंहिता-नासत्यसंहिता- गोरक्षसंहिता-रुद्रयामलतन्त्र-महारसायनतन्त्र कामधेनुतन्त्र-दत्तात्रेयतन्त्र-सिद्धल- क्ष्मीश्वरतन्त्र-नागार्जुनतन्त्र-बालतन्त्र-चन्द्रसेनसिद्धान्त-लंकेशसिद्धान्त-कपिलसि- द्धान्त-ब्रह्मसिद्धान्त-रसरत्नाकर-रसरत्नप्रदीप-रसपारिजातप्रभृतयोऽसंख्या रसग्रन्थाः श्रूयन्ते नाममात्रेण सांप्रतम् । हन्त ! यस्या रसविद्याया इतः सहस्रवर्षपूर्वं भारतेऽपरिगणनीया आचार्याः ग्रन्थाश्च लब्धप्रतिष्ठा लब्धप्रचाराश्च चासन् तस्या एव अंगुलिगणनीया ग्रन्था दृष्टिसरणिमुपयान्तीति महान् खेदः । रसतन्त्राचार्याश्च न दृश्यन्ते नाममात्रेण क्वापि । उपलब्धरसतन्त्राणामप्यतिदुर्बोधतया विरला एवोपलभ्यन्ते तदर्थज्ञा रसवैद्याः । ये केचन रसायनाचार्यंम्मन्या रसवैद्याः क्वचिद् दृश्यन्ते ते रसतन्त्रार्थजातं स्वकीयं पैतृकं धनमिति मन्यमानाः देशजात्यादिसाम्यभेदजनितमात्सर्यमलकलु- षितस्वान्ताः पठनकर्मणि व्ययीकृतानेकवर्षेभ्योऽनन्यभक्तेभ्यः शिष्येभ्योऽपि गोपय- न्त्येव । कुतश्चित् समधिगतनिशाशकलोऽपि मूषिकश्चिकित्सकत्वेनात्मानं सम्भावय- तीति लोकश्रुतिं प्रत्यक्षीकारयन्ति । अपि च इदानीन्तना ये केचन वैद्याः प्राचीनाचार्यप्रणीतान्यपि पुस्तकानि कुत- श्चित्स्वगृहाद्वा समधिगच्छन्ति तानि सूर्यदेवमपि नोपदर्शयन्ति, किं पुनर्मुद्रणालयान्। हन्त ! यस्यायुर्वेदशास्त्रस्य विविधदेशागतऋषिमहर्षिसिद्धाचार्यसंमेलनसाहा- य्येनैव पुरा प्रादुर्भावः समजनि, संमिलिता ऋषयः सिद्धा आचार्याश्च समस्तविश्व- मङ्गलकाम्यया स्वानुभवपथमुपगतमायुर्वेदतत्त्वं निरवशेषं सदसि समभिधाय आयुर्वेदकल्पतरुं प्रत्यहमहमुत्तरोत्तरमतिवेलं परिपोषयामासुस्तस्यैव सांप्रतिकी कीदृशी दुरवस्थेति परं परिभवस्थानं भारतीयभिषजाम् । इमामेव दशामवलोकयद्भिः श्रीमद्भिर्गुरुवर्यैः कविराजनरेन्द्रनाथमित्रमहोदयै- राज्ञप्तोऽहं पद्यनिबद्धग्रन्थं स्वानुभूतरसशास्त्ररहस्यं भारतीयभिषजां करकमलेषु उपायनीकर्तुम् । एतादृशदुष्करकर्मणि अशक्तस्यापि मादृशस्य मन्दमतेः गुर्वादेशस्य शिरो- धार्यतया कृतोऽयं प्रयत्नश्चेद् भारतीयभिषजां किञ्चिदप्युपकारजातमुपजनयेत्तदा- त्मानं सफलपरिश्रमं मन्येय ।

( ७ ) अस्मिंश्च ग्रन्थे पारदस्य स्वानुभूता अष्टावेव संस्काराः प्रतिपादिताः, न तु स्वानुभवपथबहिर्भूताः सर्वे (अष्टादश) संस्काराः । अस्यां च रसतरङ्गिण्यां क्वचि- त्पूर्वाचार्यपद्धतिरेवानुसृता, क्वचिच्च नव्यरसायनतन्त्रोक्तसिद्धान्ता एवानुमता मया। तथाहि-- “गंधाश्मगैरिकाशीसकांक्षीतालशिलांजनम् । कंकुष्ठं चेदुपरसाश्चाष्टौ पारदकर्मणि॥” इत्यत्र पूर्वाचार्यैरुपसत्त्वेन स्वीकृतानां गैरिकाशीसाञ्जनकंकुष्ठानां मध्ये गैरिकं लोहांशविशिष्टतया, काशीसं च रूपांतरीभूतलोहांशसमन्वितत्वेन उपधातुषु परि- संख्यातम् । कंकुष्ठञ्च वनौषधिविशेषतया नेह प्रदर्शितम् “कम्पिल्लश्चपलो गौरीपाषाणो नवसादरः । कपर्दो वह्निजारश्च गिरिसिंदूरहिंगुलौ॥ मृद्दारशृंगामत्यष्टौ साधारणारसाःस्मृताः । रससिद्धकराः प्रोक्ता नागार्जुनपुरःसरैः॥” इत्यत्र नागार्जुनादिभिः सिद्धैः साधारणारसत्वेन समाम्नातानां कम्पिल्लनवसा- दरकपर्दवह्निजारगिरिसिंदूरमृद्दारशृङ्गानां मध्ये कम्पिल्लो वनौषधिविशेषतया साधार- णरसेषु न परिगणितः (परित्यक्तं एव, निघण्टुग्रन्थैरेव तस्याप्रतिपादनीयत्वात्) । नवसारञ्च क्षारविशेषात्मकतया इह क्षारविशेषेषु निर्दिष्टम् , कपर्दश्च मृतजलंजन्तु- कीकसविशेषात्मकतया जान्तवपदार्थे पृथक् परिगणितः । वह्निजारस्तु जन्तुविशेष- जतयापि प्रायशो रसौषधेष्वप्रयुक्तत्वात् नेह प्रदर्शितः । गिरिसिंदूरमृद्दारशृंगे च सीसकधात्वात्मकतया उपधातुषु परिगणिते । “ताप्यं च विमला तुत्थं कांस्यं पित्तलकं तथा । सिंदूरं शैलनिर्यासः स्मृताः सप्तोपधातवः ॥” इत्यत्र उपधातुत्वेन समाम्नातानां कांस्यपित्तलशैलनिर्यासानां मध्ये कांस्यं ताम्रवङ्गांशमिश्रितत्वेन, पित्तलं ताम्रयशदांशमिश्रितत्वेन, शिलाजतु च लोहादिधा- तुमिश्रितत्वेन मिश्रकधातुषु परिगणितम् । क्वचिच्च रसतन्त्रानिर्दिष्टानां मृगशृङ्गसमुद्रफेनादिकानां शोधनमारणादिविधानात् वराटकादिजान्तवपदार्थेषु समाख्यानं विहितम् । तथा च प्राचीनरसागमेषु सामा- न्यतया प्रतिपादितानां विषोपविषाणां तत्तद्रसेषु प्रधानाङ्गतया सुसूक्ष्मभावेनावश्य- ज्ञातव्यतया च पृथगेव परिगणनं कृतं सविस्तरं गुणनिरूपणपूर्वकम् । क्वचिच्च प्राचीनरसतन्त्रेषु नाममात्रेणाप्यश्रुतानां नव्यरसायनतन्त्रप्रसिद्धानां

( ८ ) निम्बुकाम्ल·टङ्काम़्ल·सुवर्णंजघण·क्षारकाम्लीय·रजतारेनालीयक-सीसकद्रव-गन्ध- वाम्लीय·यशदादीनामप्युपयोगिनां विषयाणां सन्निवेशः कृतः । अपि च रसोपरसधातूपधातृवादिकानामवश्यप्रतिपत्तव्याः स्वानुभूताः शास्त्रसं- मताश्च मात्राभेदाः, गुणाः, पूर्वाचार्य्यैरनिरूपिताविशिष्टा गुणाः, सद्यो व्याधिहराः शास्त्रदृष्टाश्रामयिकाः प्रयोगा निर्द्दिष्टास्तत्र तत्र निर्व्याजम् । इहोक्ताश्च रसोपरसादि- कानां शोधनमारणादिविधयः प्रायशः स्वानुभूताः सुखसाध्या एव वा सविस्तरं तथा प्रतिपादिता यथा सुकुमारमतयोऽपि शास्त्ररहस्यमधिगन्तुं शास्त्रोक्तक्रियाश्चा- नायासेनैव साधयितुं प्रभवेयुः । एतद्ग्रन्थनिर्माणे श्रीमन्निगुंरुवर्य्यैः कविराजनरेन्द्रनाथमित्रमहोदयैर्यन्महत्सा- हाय्यमनुष्ठितं तदुपकारभारं वहामि सादरमवहितचेतसा । यच्च मदीयपरमसुहृ- द्भिर्विद्यालङ्कारपदवीविभूषितैः श्रीजयदेववर्म्ममहोदयैः मुद्रणपत्रसंशोधनादिकर्म्मणि साहाय्यं सम्पादितं तदपि कृतज्ञतापूर्वकभभिनन्दनीयम् । अन्ते तु-- वर्णयोजकदोषेणाविज्ञानाद्वा प्रमादतः । कुत्रचित्स्खलनं जातं वर्णान्यत्वादिरूपकम्॥ संशोध्यन्तु सततं १न्तस्तदनुकम्पया । स्खलनं यच्च कुत्रापि स्यान्मे पुरुषद्रोषतः ॥ इति निवेदयति- भिषजां वशंवदः सदानन्दशर्म्मा घिल्डियालोपाह्वः ।

प्राक् पठनीयम् सन्तः ! प्राणाचार्याः ! प्राणकामाश्च ! भारतीये रसायनशास्त्रे नवीनं पदमादधाना रसतरङ्गिणीयं सद्धिषजां प्रथमदर्शनात एव परं प्रमोद- मातन्वानाऽतिशयसाधारणरसगुणविचारणकारणादपरमानन्दाधिकार- मतानीत् । तस्याः प्रथमादिसंस्करणमुदारचरितैर्गुणगृहैर्भिषग्वरैस्तत्र तत्र वि- शिष्टायुर्वेदविद्यालयेषु पाठ्यत्वेनाङ्गीकृतमपरैश्च जिज्ञासुभिरहमहमिक- यैवात्मसात्कृतमिति भूयोऽपि भूयसीमावश्यकतामपरसंस्करणस्यानुबभूम् । अत्र च तत्र तत्र बहुत्र कठिनदुरुहस्थलेषु निगूढरहस्यप्रसादिनीविषम- स्थलव्याख्या निवेशितेति जिज्ञासुच्छात्राणां परं प्रमोदस्थानम् । किञ्च मूलेऽप्यत्र बहुत्र पूर्वसंस्करणोपेक्षयोपयोगि योगाधिक्यमस्ति मननीयम् । विशेषतो यथा 'तलसिन्दूरम्' 'शुक्रशोधिगन्धयोगः' 'मल्लमरणविधिः' 'स्वर्णमारणप्रकारे पञ्चमे वैशिष्ट्यम्' 'कासीसमारणप्रकारः' इत्यादि । प्रसादन्यान्तु बहुत्र रहस्योद्घाटनम्, पारदावशिष्टदशसंस्कारसंक्षिप्त- समुल्लेखः, अन्तर्धूमवालुकायन्त्रप्रकारः, गन्धकयोर्गाविशेषाः, मल्लभस्म- योगः—इत्यादयोऽनेके सूक्ष्मेक्षिकासमीक्षणीयाश्चापरे विशेषाः भावुक- मनोमोदावहाः सन्त्येव । अत्र च अतीव महत्त्वपूर्णः चपलनिर्णयोऽपि यथास्थानं निवेदित इत्यवधेयम् । अपि च एतावता कृतेऽपि प्रयत्ने भ्रमप्रमादादिस्वाभाविकास्मदीय- दोषहेतोर्जायमानं स्खलनं चेत् शोधनीयं सुधीरैः । इति निवेदयति— भिषजामनुग्राह्यो हरिदत्तः शास्त्री आयुर्वेदाचार्यः ।

हिन्दी अनुवाद की भूमिका अयुर्वेद में रसशास्त्र की कितनी महत्ता है यह बात आजकल के प्रतिदिन के व्यवहार में आनेवाली रसचिकित्सा पद्धति के अनुसरण करनेवाले किसी से छिपी नहीं है । यही नहीं रसशास्त्र में धातुविद्या का भी विशद् वर्णन पाया जाता है, जिसके लिए अभी वैद्यसमुदाय को बहुत कुछ करने को बाकी है । परन्तु चिकित्सा के लिए रसशास्त्र का अध्ययन-अध्यापन तथा क्रियात्मक प्रयोग करने पर कई बार यह कठिनाई उपस्थित हो जाती है । रसचिकित्सा में व्यवहार में आनेवाले खनिज- द्रव्यों का शोधन मारण आदि किस शास्त्र के अनुसार विधि से करने पर उत्तम गुणदायक हो सकता है—किससे नहीं ? इसके साथ ही यह भी देखना होता है कि अमुक विधि का अनुसरण करने से उसमें अधिक व्यय तथा समय का तो उपयोग नहीं होता जिससे हम उसके उपयोग अथवा लाभ से वञ्चित रह जायें । इन सब बातों का चिर- काल से विचार करते हुए ही रसचिकित्सा में काम आनेवाले प्रसिद्ध खनिज द्रव्योंके विज्ञान की कोई ऐसी पुस्तक हो जिसमें खनिजों की प्रकृति, प्राप्ति और गुण दोष आदि का वर्णन आयुर्वेददृष्टि से उत्तम और सरल हो, जिसके अनुसार उनका शोधन-मारण सही रूप में हो सके और उसके उपयोग का भी ज्ञान अच्छी तरह हो जाय । इसके साथ ही अपना और अन्य रसचिकित्साधुरीण वैद्यों का भी उनके विषय में पूर्ण अनुभव प्रकट हो जाय, जिससे रसचिकित्सा का महत्त्व और सद्यःफलप्रद चमत्कार सब के सामने बड़ी सरलता के साथ आ जाय । इसी आवश्यक कार्य को यथासम्भव पूरा करने के लिए उक्त गुणसम्पन्न पुस्तक की अत्यन्तावश्यकता थी कि सर्वसाधारण के लिए हिन्दी भाषा में संस्कृतमय रसशास्त्रों के निचोड़ के रूप में एक पुस्तक हो । सौभाग्य से लाला मोतीलाल बनारसीदास फर्म के मालिक श्री सुन्दरलालजी ने भी यही आग्रह कई बार दुहराया । इस बात को दृष्टि में रखते हुए रसशास्त्र की पुस्तकों का मैंने इस प्रकार निरीक्षण करना आरम्भ किया कि किस रसशास्त्र सम्बन्धी पुस्तक में विषयविन्यास

[ ११ ]

उत्तम विधि से वर्णित है। मेरी दृष्टि में आधुनिक काल में लिखी हुई स्व० कविराज सदानन्द शास्त्री कृत रसतरंगिणी बहुत उत्तम सिद्ध हुई। अतः मैंने उसी का सरल हिन्दी अनुवाद 'रस विज्ञान' नाम से यह लिखा है। इस पुस्तक में प्रकरण के स्थान-स्थान पर उन पाश्चात्य योगों का भी दिग्दर्शन करा दिया गया है, जो एक रसचिकित्सक को जानने जरूरी हैं। साथ ही यथासम्भव खनिजादि द्रव्यों का परिचय, उनमें पाये जानेवाले तत्वों का विश्लेषण, उपयोग-विधि और उनके योगों का भी वर्णन किया गया है, जिससे रसचिकित्सक आधुनिक रसविज्ञान से भी परिचित हो जायें। यदि यह चिरकालीन धारणा क्रियात्मक रूप धारण कर रसशास्त्र के प्रेमियों के लिए उपयोगी सिद्ध हुई तो मैं अपनी धारणा और प्रयत्न को सफल समझूँगा। धर्मानंद

तरङ्गानुक्रमणिका तरङ्गाः पृष्ठाङ्काः रसशालाविज्ञानीयः प्रथमस्तरङ्गः १ परिभाषाविज्ञानीयो द्वितीयस्तरङ्गः ११ मूषादिविज्ञानीयस्तृतीयस्तरङ्गः २७ यन्त्रविज्ञानीयश्चतुर्थस्तरङ्गः ४१ पारदस्य अष्टसंस्कारविज्ञानीयः पञ्चमस्तरङ्गः ७१ मूच्छर्नाविज्ञानीयः षष्ठस्तरङ्गः १०२ पारदमारणविज्ञानीयः सप्तमस्तरङ्गः १४३ गन्धकविज्ञानीयोऽष्टमस्तरङ्गः १७४ हिंगुलविज्ञानीयो नवमस्तरङ्गः १८८ चपलनिर्णयः २०६ अभ्रकविज्ञानीयो दशमस्तरङ्गः २२१ तालकादिविज्ञानीय एकादशस्तरङ्गः २४४ शङ्खादिविज्ञानीयो द्वादशस्तरङ्गः २८५ क्षारत्रिकविज्ञानीयस्त्रयोदशस्तरङ्गः ३०७ क्षारविशेषादिविज्ञानीयश्चतुर्दशस्तरङ्गः ३२५ सुवर्णविज्ञानीयः पञ्चदशस्तरङ्गः ३६० रजतविज्ञानीयः षोडशस्तरङ्गः ३८५ ताम्रविज्ञानीयः सप्तदशस्तरङ्गः ४०८ वङ्गविज्ञानीयोऽष्टादशस्तरङ्गः ४३५ सीसकादिविज्ञानीय एकोनविंशस्तरङ्गः ४५५ लोहादिविज्ञानीयो विंशस्तरङ्गः ४८७ उपधात्वादिविज्ञानीय एकविंशस्तरङ्गः ५१६ मिश्रलौहादिविज्ञानीयो द्वाविंशस्तरङ्गः ५६६ रत्नविज्ञानीयस्त्रयोविंशस्तरङ्गः ५८६ विषोपविषादिविज्ञानीयश्चतुर्विंशस्तरङ्गः ६४६

विषय सूची

विषय | पृष्ठ | विषय | पृष्ठ प्रथम तरङ्ग | | अपर अम्ल पञ्चक | १४ मङ्गलाचरणम् | १ | पञ्चतिक्त | ” अहङ्कार परिहार | २ | पञ्चमृत्तिका | ” अनुबन्ध चतुष्टय | ३ | मधुरत्रिक | ” पुस्तक परिचय | ३ | पञ्चामृत | १५ रसवैद्य प्रशंसा | ४ | पञ्चगव्य | ” रसशाला | ५ | क्षीरत्रय | ” रसशाला में कर्मविभाग | ६ | दुग्धवर्ग | ” रसशाला के लिए उपकरण द्रव्य | ६ | तैल वर्ग | १६ परिचारक लक्षण | ८ | कज्जली का स्वरूप | १६ रससिद्ध आचार्यों का नाम | ६ | रसपङ्क ” ” | ” रसशास्त्र के आचार्य का स्वरूप | ६ | पिष्टिका ” ” | ” शिष्य का स्वरूप | १० | हिङ्गुलाकृष्ट रस | ” अनधिकारी शिष्य | १० | धातु सत्त्व लक्षण | १७ द्वितीय तरङ्ग | | वनौषधि सत्त्व ,, | ,, परिभाषा ज्ञान का फल | १२ | सिक्थ तैल ” | ,, परिभाषा लक्षण | ११ | द्रावक गण | १८ लवण पञ्चक | ११ | ढालन | ,, लवणत्रय | ११ | मित्रपञ्चक | ,, सैन्धव की प्रधानता | १२ | आवाप लक्षण | ,, क्षारद्वय, क्षारत्रय | ” | निर्वाप ” | १६ क्षार पञ्चक | ” | शुद्धावर्त लक्षण | ,, क्षाराष्टक | ” | पर्पटी स्वरूप | ,, मूत्राष्टक | ” | ताडन | २० गोर्वर | १३ | घोषाकृष्टताम्र | ,, अम्लवर्ग | १३ | वङ्कनाल | ,, अम्ल पञ्चक | १४ | स्वाङ्ग शीत लक्षण | ,,

[ १४ ] विषय पृष्ठ | विषय पृष्ठ बहिःशीत लक्षण २१ | कोष्ठिका लक्षण ३३ भावना " २१ | अङ्गार कोष्ठिका " भावना में द्रवभाग २१ | पाताल कोष्ठिका ३४ शोधन २२ | पुट लक्षण ३५ वारितर लक्षण " | पुट प्रयोजन ३५ मृत लौह लक्षण " | सामान्यपुटक्रम ३६ अपुनर्भव " २३ | सूर्यपुट ३७ निरुत्थ " २३ | महापुट ३७ अमृतीकरण २४ | गजपुट ३७ परिस्रुत सलिल " | वाराहपुट ३८ मान परिभाषा २५ | कुक्कुटपुट " धन्वन्तरिभाग २६ | कपोतपुट " विश्वासघातक वैद्य " | गोर्वरंपुर ३६ तृतीय तरङ्ग | भाएडपुट ३६ मूषा नाम २७ | वालुकपुट ३६ पिधान २८ | भूधरपुट ३६ सन्धिलेप " | लावकपुट ४० मूषानिर्माणयोग्य मट्टी " | पुट नाम न रहने पर पुट देने का सामान्यमूषा २६ | विचार ४० वज्रमूषा " | उपलों का नाम ४० योगमूषा " | चतुर्थ तरङ्ग वज्र द्रावणिका मूषा ३० | यन्त्र का लक्षण ४१ गारमूषा ३० | दोलायन्त्र ल० ४२ गोस्तनीमूषा ३१ | ऊर्ध्वपातन यन्त्र ल० ४३ मल्लमूषा ३१ | अधःपातन यन्त्र ल० ४५ महामूषा ३१ | तिर्यक् पातन यन्त्र ल० ४६ वृन्ताक मूषा ३२ | भस्म यन्त्र ल० ४७ मूषाप्यायनकम् ३२ | कच्छप यन्त्र ल० ४८ अङ्गारधानिका ३३ | भूधर यन्त्र ल० ४८

[ १५ ] विषय पृष्ठ | विषय पृष्ठ मृदङ्ग यन्त्र ल० ४६ | आकाश पातन यन्त्र ७० स्थाली यन्त्र ल० ५२ | तप्त खरल यन्त्र ७१ बालुका ,, ,, ५२ | पञ्चम तरङ्ग लवण ,, ,, ५४ | पारद के नाम ७१ पुट ,, ,, ५४ | शुद्ध अशुद्ध पारद का स्वरूप ७२ बाष्प स्वेदन यन्त्र ल० ५४ | अविशुद्ध पारद का स्वरूप ७२ दर्विका यन्त्र लक्षण ५६ | पारा में स्वाभाविक दोष ७३ पालिका ,, ,, ५६ | पारा के सात दोष ७५ डमरुकाख्य यन्त्र लक्षण ५७ | सातों दोषों का परिचय ७५ नाडिका यन्त्र लक्षण ५७ | पारा शुद्धि की आवश्यकता ७६ पाताल ,, ,, ५८ | शोधन के लिए पारा का मान ७७ खल्व ,, ,, ६० | शुद्धि का समय ७७ खल्व यन्त्र का प्रयोजन ६० | रस पूजन ७८ खल्व यन्त्र के दो भेद ६० | रस की सामान्य शोधन विधि ७८ वर्त्तुल खल्व ६० | प्रथम शोधन वि० ७८ द्रोणीरूपखल्व ६१ | द्वितीय शोधन वि० ७९ उलूखल यन्त्र ६१ | तृतीय शोधन वि० ८० इष्टिका यन्त्र ६२ | चतुर्थ शोधन विधि ८० जारणा ,, ६२ | पञ्चम शोधन ८१ सांमनाल ,, ६३ | षष्ठ शोधन विधि ८१ हंसपाक ,, ६४ | हिङ्गु से पारा निकालने की विधि ८२ नाभि ,, ६४ | पारा के अष्ट संस्कार ८३ धूप ,, ६५ | स्वेदन लक्षण ८४ कोष्ठी ,, ६६ | प्रथम स्वेदन विधि ८५ वलभी ,, ६७ | द्वितीय स्वेदन विधि ८५ स्वेदनी ,, ६८ | तृतीय स्वेदन विधि ८५ पातना ,, ६८ | मर्दन स्वरूप ८६ पातना यन्त्र का अन्य प्रकार ६६ | प्रथम मर्दन विधि ८६ उष्ण यन्त्र ६६ | मर्दन की द्वितीय विधि ८७

[ १६ ] विषय पृष्ठ | विषय पृष्ठ मूर्च्छन स्वरूप ८७ | जारणा स्वरूप ६६ प्रथम मूर्च्छन विधि ८७ | षड्गुण गन्धक जारण का प्रयोजन ६६ द्वितीय मूर्च्छन विधि ८७ | षड्गुण गन्धकजारण का प्रथम उत्थापन स्वरूप ८८ | प्रकार ६७ उत्थापन का प्रथम प्रकार ८८ | षड्गुण गन्धक जारण का द्वितीय उत्थापन का द्वितीय प्रकार ८६ | प्रकार ६७ उत्थापन का तृतीय प्रकार ८६ | षड्गुण गन्धक जीर्ण रस का गुण ६८ उत्थापन का चतुर्थ प्रकार ८६ | छठवा तरङ्ग पातनातितय स्वरूप ८६ | मूर्च्छना का स्वरूप १०२ ऊर्ध्वपातन का प्रथम प्रकार ६० | मूर्च्छना के दो भेद १०३ ऊर्ध्वपातन का द्वितीय प्रकार ६१ | सगन्ध मूर्च्छना के दो भेद १०४ ऊर्ध्वपातन का तृतीय प्रकार ६१ | अन्तर्धूम मूर्च्छना का स्वरूप १०४ अधः पातन का प्रथम प्रकार ६१ | सगन्धनिर्र्गन्धमूर्च्छितरसका भेद १०४ अधः पातन का द्वितीय प्रकार ६१ | मुग्ध रस का स्वरूप १०५ तिर्यक् पातन का लक्षण ६२ | मुग्ध रस का गुण १०५ बोधन का लक्षण ६२ | मुग्ध रस की मात्रा १०६ बोधन का प्रथम प्रकार ६२ | मुग्ध रस का आमयिक प्रयोग १०६ बोधन का द्वितीय प्रकार ६२ | रसपुष्प का नाम १०७ बोधन का तृतीय प्रकार ६३ | रसपुष्प का निर्माण १०७ नियामन का स्वरूप ६३ | रसपुष्प का द्वितीय निर्माण १०८ नियामन का प्रथम प्रकार ६३ | रसपुष्प का तृतीय निर्माण १०६ नियामन का द्वितीय प्रकार ६४ | रसपुष्प की परीक्षा ११० नियामन का तृतीय प्रकार ६४ | रसपुष्प का गुण १११ रस नियामक गण ६४ | रसपुष्प की मात्रा १११ दीपन स्वरूप ६५ | रसपुष्प का आमयिक प्रयोग ११२ दीपन का प्रथम प्रकार ६५ | चन्दनादि वटिका ११२ दीपन का द्वितीय प्रकार ६५ | रसपुष्प मलहर ११३ दीपन का तृतीय प्रकार ६६ | रसपुष्पाद्यमलहर ११३ दीपन का चतुर्थ प्रकार ६६ ! | रसपुष्पाद्य मलहर का गुण ११४