रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 12, कुल 799 में से
संदर्भ में पढ़ें( ८ ) निम्बुकाम्ल·टङ्काम़्ल·सुवर्णंजघण·क्षारकाम्लीय·रजतारेनालीयक-सीसकद्रव-गन्ध- वाम्लीय·यशदादीनामप्युपयोगिनां विषयाणां सन्निवेशः कृतः । अपि च रसोपरसधातूपधातृवादिकानामवश्यप्रतिपत्तव्याः स्वानुभूताः शास्त्रसं- मताश्च मात्राभेदाः, गुणाः, पूर्वाचार्य्यैरनिरूपिताविशिष्टा गुणाः, सद्यो व्याधिहराः शास्त्रदृष्टाश्रामयिकाः प्रयोगा निर्द्दिष्टास्तत्र तत्र निर्व्याजम् । इहोक्ताश्च रसोपरसादि- कानां शोधनमारणादिविधयः प्रायशः स्वानुभूताः सुखसाध्या एव वा सविस्तरं तथा प्रतिपादिता यथा सुकुमारमतयोऽपि शास्त्ररहस्यमधिगन्तुं शास्त्रोक्तक्रियाश्चा- नायासेनैव साधयितुं प्रभवेयुः । एतद्ग्रन्थनिर्माणे श्रीमन्निगुंरुवर्य्यैः कविराजनरेन्द्रनाथमित्रमहोदयैर्यन्महत्सा- हाय्यमनुष्ठितं तदुपकारभारं वहामि सादरमवहितचेतसा । यच्च मदीयपरमसुहृ- द्भिर्विद्यालङ्कारपदवीविभूषितैः श्रीजयदेववर्म्ममहोदयैः मुद्रणपत्रसंशोधनादिकर्म्मणि साहाय्यं सम्पादितं तदपि कृतज्ञतापूर्वकभभिनन्दनीयम् । अन्ते तु-- वर्णयोजकदोषेणाविज्ञानाद्वा प्रमादतः । कुत्रचित्स्खलनं जातं वर्णान्यत्वादिरूपकम्॥ संशोध्यन्तु सततं १न्तस्तदनुकम्पया । स्खलनं यच्च कुत्रापि स्यान्मे पुरुषद्रोषतः ॥ इति निवेदयति- भिषजां वशंवदः सदानन्दशर्म्मा घिल्डियालोपाह्वः ।