रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 11, कुल 799 में से
संदर्भ में पढ़ें( ७ ) अस्मिंश्च ग्रन्थे पारदस्य स्वानुभूता अष्टावेव संस्काराः प्रतिपादिताः, न तु स्वानुभवपथबहिर्भूताः सर्वे (अष्टादश) संस्काराः । अस्यां च रसतरङ्गिण्यां क्वचि- त्पूर्वाचार्यपद्धतिरेवानुसृता, क्वचिच्च नव्यरसायनतन्त्रोक्तसिद्धान्ता एवानुमता मया। तथाहि-- “गंधाश्मगैरिकाशीसकांक्षीतालशिलांजनम् । कंकुष्ठं चेदुपरसाश्चाष्टौ पारदकर्मणि॥” इत्यत्र पूर्वाचार्यैरुपसत्त्वेन स्वीकृतानां गैरिकाशीसाञ्जनकंकुष्ठानां मध्ये गैरिकं लोहांशविशिष्टतया, काशीसं च रूपांतरीभूतलोहांशसमन्वितत्वेन उपधातुषु परि- संख्यातम् । कंकुष्ठञ्च वनौषधिविशेषतया नेह प्रदर्शितम् “कम्पिल्लश्चपलो गौरीपाषाणो नवसादरः । कपर्दो वह्निजारश्च गिरिसिंदूरहिंगुलौ॥ मृद्दारशृंगामत्यष्टौ साधारणारसाःस्मृताः । रससिद्धकराः प्रोक्ता नागार्जुनपुरःसरैः॥” इत्यत्र नागार्जुनादिभिः सिद्धैः साधारणारसत्वेन समाम्नातानां कम्पिल्लनवसा- दरकपर्दवह्निजारगिरिसिंदूरमृद्दारशृङ्गानां मध्ये कम्पिल्लो वनौषधिविशेषतया साधार- णरसेषु न परिगणितः (परित्यक्तं एव, निघण्टुग्रन्थैरेव तस्याप्रतिपादनीयत्वात्) । नवसारञ्च क्षारविशेषात्मकतया इह क्षारविशेषेषु निर्दिष्टम् , कपर्दश्च मृतजलंजन्तु- कीकसविशेषात्मकतया जान्तवपदार्थे पृथक् परिगणितः । वह्निजारस्तु जन्तुविशेष- जतयापि प्रायशो रसौषधेष्वप्रयुक्तत्वात् नेह प्रदर्शितः । गिरिसिंदूरमृद्दारशृंगे च सीसकधात्वात्मकतया उपधातुषु परिगणिते । “ताप्यं च विमला तुत्थं कांस्यं पित्तलकं तथा । सिंदूरं शैलनिर्यासः स्मृताः सप्तोपधातवः ॥” इत्यत्र उपधातुत्वेन समाम्नातानां कांस्यपित्तलशैलनिर्यासानां मध्ये कांस्यं ताम्रवङ्गांशमिश्रितत्वेन, पित्तलं ताम्रयशदांशमिश्रितत्वेन, शिलाजतु च लोहादिधा- तुमिश्रितत्वेन मिश्रकधातुषु परिगणितम् । क्वचिच्च रसतन्त्रानिर्दिष्टानां मृगशृङ्गसमुद्रफेनादिकानां शोधनमारणादिविधानात् वराटकादिजान्तवपदार्थेषु समाख्यानं विहितम् । तथा च प्राचीनरसागमेषु सामा- न्यतया प्रतिपादितानां विषोपविषाणां तत्तद्रसेषु प्रधानाङ्गतया सुसूक्ष्मभावेनावश्य- ज्ञातव्यतया च पृथगेव परिगणनं कृतं सविस्तरं गुणनिरूपणपूर्वकम् । क्वचिच्च प्राचीनरसतन्त्रेषु नाममात्रेणाप्यश्रुतानां नव्यरसायनतन्त्रप्रसिद्धानां