भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 8, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 8

भूमिका अयि आयुर्वेदाणर्वकर्णधारधुरीणाः ! रसनिगमपारावारपारीणाः ! प्राणाचार्य- शिरोमणयः ! विदिततरमेवैतत्सर्वेषां तत्रभवतां सवतां यत्खुरभारतीयसाहित्यस्य गौरवास्पदभूतासु रसमूलिकाशास्त्राभिधेयासु तिसृष्वपि चिकित्सासु रसचिकित्साया एव प्राधान्यम् । अतएव आमनन्त्येवं वृद्धवैद्याः— “उत्तमो रसवैद्यस्तु मध्यमो मूलिकादिभिः । अधमः शस्त्रदाहाभ्याम्” अपि च रसचिकित्सकचूडामणिना श्रीगोपालकृष्णेन रसेन्द्रसारसंग्रहनामक- स्वसंगृहीतग्रन्थोपकमेऽपि समर्थितमस्य प्राशस्त्यम् । तथाहि “अल्पमात्रोपयोगित्वादरुचेरप्रसंगतः । क्षिप्रमारोग्यदायित्वादौषधेभ्योऽधिको रसः ॥” एतावत्तैवास्या रसचिकित्सायाः प्राशस्त्यमध्यवसीयते यदिदमादिदेवेन महा- देवेन शतसहस्रपषनिबद्धसंहितात्मकतया सर्वप्रथममाविष्कृतेति । अपि च समुपेयसुखावहपदार्थप्रधानभूतस्य पुरुषार्थचतुष्टयस्योपजनकरत्वेन कियदुपादेयत्वमस्येति सुधीभिरेव निर्धारवधेयम् । पुरुषार्थचतुष्टयप्रयोजकत्वं चास्याः सुविदितमेव सर्वेषां वैद्यविद्याविदाम् । तथाहि--निःशुल्कौषधदानरोगिनिरीक्षणादिना आर्तत्राणरूपः, सन्निपाताद्यात्ययि- कामयेषु प्राणप्रदत्वेन नवजीवनदानरूपश्च धर्मः, प्रचुरार्थराशिशाळिनां धनपतिवि- रुद्भाजां चिकित्साकरणेन अर्थोदयः, निरुक्तरीतिसमुपार्जितधनेन कामश्च समुल्ल- सतीति निर्विवादम् । आयुर्वेदांगभूतस्य रसशास्त्रस्य मोक्षाभिधायकत्वं च रसार्णवादिप्राचीनार्षग्रंथेषु षड्दर्शनादिविलक्षणतया प्राधान्येनैव प्रतिपादितम् । मन्यन्ते च प्राचीना रसाय- नाचार्याः प्रधानप्रयोजनं रसशास्त्रस्य मोक्षावाप्तिसाधनम् । तथाहि-- श्रीदेव्युवाच—त्वत्प्रसादाच्छ्रुतं सर्वमशेषमवधारितम् । यदि तेऽहमनुग्राह्या यद्यहं तव वल्लभा ॥ श्रीभैरव उवाच--साधु साधु महाभागे ! साधुपर्वतनन्दिनि ! ।