रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 9, कुल 799 में से
संदर्भ में पढ़ें( ५ ) साधु पृष्टं त्वया देवि ! भक्तानां हितकाम्यया ॥ अजरामरदेहस्य शिवतादात्म्यवेदनम् । जीवन्मुक्तिर्महादेवि देवानामपि दुर्लभा ॥ पिण्डपाते च यो मोक्षः स च मोक्षो निरर्थकः । पिण्डे तु पतिते देवि ! गर्दभोऽपि विमुच्यते ॥ षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने । करामलकवत्सापि प्रत्यक्षं नोपलभ्यते ॥ देवानामपि देवेशि ! दुर्लभं पिण्डधारणम् । किं पुनर्मानुषाणां तु धरणीतलवासिनाम् ॥ तेन पिण्डो महादेवि रक्षणीयः प्रयत्नतः । यावन्न हरबीजं तु भक्षयेत्पारदं रसम् । तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ ( रसार्णवप्रथमपटलः ) श्रीमद्भगवद्गोविन्दपादाश्चैवमाममन्ति— इति धनशरीरभोगान् मत्वाऽनित्याः सदैव यतनीयम् । मुक्त्यै सा च ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे ॥ स्थिरदेहोऽभ्यासवशात् प्राप्य ज्ञानं गुणाष्टकोपेतम् । प्राप्नोति ब्रह्मपदं न पुनर्मचवासदुःखानि ॥ नहि देहेन कथंचिद् व्याधिजरामरणदुःखविधुरेण क्षणभंगुरेण सूक्ष्मं तद् ब्रह्मोपासितुं शक्यम् ॥ अस्मिन्नेव शरीरे येषां परमात्मनो न संवेदः देहत्यागादूर्ध्वं तेषां तद् ब्रह्म दूरतरम् । तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं दिव्या तनुर्विधेया हरगौ- रीसृष्टिसंयोगात् । ( रस० हृ० त० प्र० प्र० ) अस्याश्च रसचिकित्सायास्तन्त्रकाराः—श्रीशङ्कर-नन्दीश्वर-भैरवब्रह्मविष्णु-दत्ता- त्रेयप्रभृतयो देवाः अगस्त्य-कपिल-मालुकि-व्याडिमत्तमायडव्यादयो महर्षयः, चन्द्रसेन-लङ्केश-विशारद-भास्कर-सुरसेन-रत्नकोश-स्वच्छन्दभैरव-मन्थानभैरव- काकचण्डीश्वर-नरवाहन-कपालिक-रसेन्द्रतिलक-सुरानन्द-यशोधन-गोमुख-नरेन्द्र- मैथिल-स्कन्द-भगवद्गोविन्द पाद-प्रभृतयः प्राचीना रससिद्धाः नागार्जुन-भैरवनाथ-