भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 181, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 181

षष्ठस्तरङ्गः १४१ नियमयति रसेशपंचवातान्नित्तान्तं प्रसरति धमनीनां स्वक्रिया वातसाम्ये । दृढयति भृशमादौ जालकं नाडिकानां रमयति च ततोऽसौ मानसं सेवकानाम् ॥ १६३ ॥ बहिर्गमनशीला ये स्वेदविण्मूत्रमारुताः । निरायासं विनिर्यान्ति रसस्यास्य निषेवणात् ॥ १६४ ॥ पित्तं निःसारयत्येष न रेचयति कर्हिचित् । न च पित्ताशयं कोष्ठं विक्षोभयति भक्षितः ॥ १६५ ॥ स्फीततां दन्तवेष्टानां मुखपाकं क्षतादिकम् । लालास्रावं प्रदाहं च न सूते चिरसेवितः ॥ १६६ ॥ विकारानीदृशानन्यान् दारुणान् पारदोत्थितान् । न जातु प्रकरोत्येष रसः सिन्दूरसंज्ञकः ॥ १६७ ॥ दोषत्रितयमत्यर्थप्रवृद्धं शमयत्यलम् । प्रकृतिं गमयत्यत्र करणानि विशेषतः ॥ १६८ ॥ अथास्य गुणाः—महाज्वरेभाङ्कुश इति महाज्वर एव हस्ती तस्मै अङ्कुश इव । अलं मलयजानिलैरित्यनेनास्य कामोदीपकत्वं सूच्यते । कान्तामस्तक- भूषणः सिन्दूरम् । नियमयतीति—रससिन्दूरं साधुसेवितं नितान्तं शारीरान् पञ्चवातानुद्रिक्तान् नियमयति प्रकृतावानयति । ततश्च वातसाम्ये सति धमनीनां स्वक्रिया रुधिरधमनरूपा जायमाना प्रसरति । अपि चायमादौ संज्ञावहानां चेष्टा- वहानाञ्च नाडिकानां जालकं तत्तत्कर्मक्षमतासम्पादनद्वारा द्रढयति । ततोऽसौ स्वसेवकानां मानसं रमयति इति शरीरप्रक्रियापादनद्वारा साधीयसी कर्मण्यता भवत्यनेनेत्याशयः । तथा चायं स्वाशायादधिकं पित्तं निःसारयति न च रेचयति, पित्ताशयं कोष्ठञ्चामपक्वाशयरूपं न विक्षोभयति । तथा रसकर्पूरादिवत् दन्त- वेष्टानां स्फीततां शोथं मुखपाकं तालुक्षतादिकं लालास्रावं प्रदाहञ्च चिरसेवितो- ऽपि न जनयति । अन्यानपि पारदोत्थितान् दारुणान् भ्रममोहादीन् विकारान् रससिन्दूरो न करोतीति सर्वथा निरापदमस्य सेवनमित्याशयः । रोगापनयनाव- शिष्टोऽस्यांशोऽधिकः स्वेदादिद्वारा स्वतः शरीराद् बहिर्विनिर्यातीति नायं रसकर्पूरवत् पारदनिःसारकौषधान्तरापेक्ष इति प्राचामभिप्रायः । स चायं रस- सिन्दूरः स्वप्रमाणातिरिक्तदोषत्रयं शमयति । तथा सर्वाणीन्द्रियाणि स्वां स्वां प्रकृतिं स्वस्वविषयाणां यथावद्ग्रहणरूपां गमयति इति ॥ १६०–१६८ ॥

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक) · पृष्ठ 181, कुल 799 में से · BharatKosha