भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 184, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 184

१४४ रसतरंगिणी मेहे गुडूचीस्वरसेन दद्यात् योषित्प्रियामूलजतोयकैर्वा । असृग्दरेऽशोकबलादिकानां क्वाथेन सिन्दूररसः प्रयोज्यः ॥२०५॥ बालाभयायाः क्वाथेन बुधोऽर्शसि नियोजयेत् । वचारसेन तच्चूर्णं वापस्मारे प्रयुज्यते ॥ २०६ ॥ कूष्माण्डस्वरसेनेह दद्यादुन्मादसंज्ञके । श्वासे विभीतकक्वाथैर्वासायाः स्वरसेन वा ॥२०७॥ कामलायां बुधो दद्यात् दार्वीक्वाथेन संयुक्तम् । पांडुरोगे प्रयुञ्जीत रसज्ञो लोहभस्मना ॥२०८॥ सितोपला च सूक्ष्मैला शिलाजञ्च समं समम् । एतत्त्रितयचूर्णेन मूत्रकृच्छ्रकुलान्तकः ॥२०९॥ अजीर्णे मधुना वापि मुस्तकक्वाथजैर्द्रवैः । शूले वैद्यवरो दद्यात् त्रिफलाक्वाथसंयुक्तम् ॥२१०॥ कणाचूर्णयुतः सूतः प्रदद्यात् रक्तिकोन्मितः । सेवितो नाशयेन्मूर्च्छां पथ्यं तोयावगाहनम् ॥२११॥ वमने बृहदेलायाः क्वाथेन मधुनापि वा । शोथे पुनर्नवायास्तु कषायेण प्रयोजयेत् ॥२१२॥ गुडूचीनिम्बखदिरपुरुहूतफलद्रवैः । क्वाथैर्वा संयुतश्चन्द्रचातुर्जातकमिश्रितः ॥२१३॥ रससिन्दूरसंज्ञोऽयं प्रयुक्तो रक्तिकोन्मितः । विस्फोटं दारुणं हन्याद्यथा सूर्यस्तमस्ततिम् ॥२१४॥ काकोली चूर्णसंयुक्तं नारिकेलोत्थतैलयुग् । सेवितं रससिन्दूरं हरेद्रोगं जरायुजम् ॥२१५॥ मृतवंगसमायुक्तो रसः सिन्दूरसंज्ञकः । क्षौद्रेण भक्षितो हन्ति प्रमेहं त्वतिकालजम् ॥२१६॥ सक्षौद्रैस्त्र्यूषणोपेतैर्धान्यजीरकनागरैः । सेवितो रससिन्दूरो वान्तिं जयति दारुणाम् ॥२१७॥ ब्राह्मीवचाशङ्खपुष्पीकुष्ठैलाक्वाथसंयुक्तम् । रक्तिकाद्वितयं खादेदपस्मारहरं परम् ॥२१८॥ धात्रीवयस्याकलिपादपानां क्वाथेन वा जन्तुरिपोः समेतः । नित्यं तु सिन्दूररसो रसज्ञैः भगन्दरेऽयं विनियोजनीयः॥२१९॥

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक) · पृष्ठ 184, कुल 799 में से · BharatKosha